________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
बा.रा.भू. शास्वजनपदभवः। परजनपदभवश्चत्पक्षपातमाचरेत् । विद्वान् पराभिप्रायज्ञः। दक्षिणःसमर्थः। प्रतिभानवान् प्रत्युत्पन्नमतिः, परोक्तस्याविलम्बमुचितोटी .अ.का. १२९५त्तरज्ञ इति यावत्। यथोक्तवादी उक्तमनतिक्रम्य सन्देशप्रतिसन्देशवदनशीलः कार्योंपयोगितया बहमुखं व्याहरनपिस्वाम्युक्तमजहदेव व्यवहत्तेति यावत् ॥ १०॥
पापण्डितः परिच्छेत्ता । “ परिच्छेदो हि पाण्डित्यम्" इत्युक्तेः ॥ ३६ ॥ कच्चिदष्टादशान्येष्विति । अन्येषु परपक्षेषु । अष्टादश तीर्थानि स्वपक्षे पञ्च ला कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च । त्रिभिस्त्रिभिरविज्ञातैवेत्सि तीर्थानि चारकैः ॥ ३७॥ दशतीर्थानि च । अविज्ञातैः परस्परमन्यैश्चाविज्ञातैः। विज्ञातत्वे तेषां साङ्केतिकव्यवहारः प्रादुष्यात् । एकस्मिन् तीर्थे विभित्रिभिः चारकैः वेषान्तर धारिभिश्चारैः। कृत्रिमाणे कप्रत्ययः। वेत्सि कच्चित, एतानि न्यायतोऽन्यायतो वा प्रवर्तन्त इति जानासि कच्चिदित्यर्थः । तानीमानि अष्टादश। नीतिशास्त्रोक्तानि तीर्थानि-मन्त्रिपुरोहितयुवराजसेनापतिदोवारिकान्तर्वशिककारागाराधिकृतार्थसञ्चयकृत्कायनियोजकपाड़िवाकसेनानायकनगराध्यक्ष कान्तिकसभ्यधर्माध्यक्षदण्डपालदुर्गपालराष्ट्रान्तपालाः । एष्वेव मन्त्रिपुरोहितयुवराजव्यतिरिक्तानि स्वपक्षे पञ्चदशतीथानि । मन्त्रिपुरोहितयुवराज सेनापतयः प्रसिद्धाः । दौवारिक: अन्तःपुरादिद्वाररक्षणाधिकृतजननिर्वाहकः । अन्तर्वशिकः अन्तःपुरकार्यनिर्वाहकः । कारागारम् अपराधिना | बन्धनगृहम्, तत्राधिकृतः कारागाराधिकृतः । अर्थसञ्चयकृत् धनाध्यक्षः। कार्यनियोजकः राजाज्ञाया बहिः प्रचारकर्ता । प्राझिवाका व्यवहारप्रष्ट तल्लक्षणमुक्तम्-“विवादे पृच्छति प्रश्नं प्रतिप्रश्नं तथैव च । प्रियपूर्व प्राग्वदति प्राडिवाकस्ततः स्मृतः॥” इति । सेनानायकः सेनायाः भृतिजीवनादि पादानाध्यक्षः। नगराध्यक्षः रात्रौ नगरशोधननगरद्वारप्राकारादिरक्षणसंविधानादिकर्ता कान्तिकः कार्यान्ते वेतनग्राहिणां सैनिकव्यतिरिक्तानां सर्वपाल
राज्ञस्सकाशात् एकधा स्वयं वेतनं गृहीत्वा प्रत्येकं तद्यो दापयति सः । सभ्यः प्रतिदिनं सभालङ्करणराजमन्त्रिप्रभृतिसमुचितासनविधानसभ्या। अन्येषु परपक्षेषु मन्त्रादीन्यष्टादशतीर्थानि स्वपक्षे पञ्चदशतीर्थानि च परस्परमविज्ञातैरन्योन्यमविज्ञातैखिभित्रिभिश्चारकैर्वेषान्तरधारिभिः चारैवेत्सि कञ्चिदिति
सम्बन्धः । “चारान्विचारयेत्तीर्थेष्वात्मनश्च परस्य च । पाषण्डादीनविज्ञातानन्योन्यमितरेष्वपि ॥ मन्त्रिणं युवराजं च हित्वा स्वेषु पुरोहितम् ।" इति । Nअष्टादशतीथान्येतानि-मन्त्रिपुरोहितयुवराजसेनापतिदोवारिकान्तर्वशिककारागाराधिकृतार्थसञ्चयकृत्कृत्याकृत्यनियोजकपाड़िवाकसेनानायकनगराध्यक्षदण्डपाल
२९५॥ दुर्गपालराट्रान्तपालका इति नीतिशास्त्रोक्तान्यष्टादश तीर्थानि । प्रादिवाकलक्षणम्-"विवादे पृच्छति प्रश्नं प्रतिप्रश्नं तथैव च । प्रियपूर्व प्राग्वदति प्राड़िवाकस्ततः कास्मृतः॥" इति । एतेषां तीर्थशब्दवाच्यत्वे हलायुधः “योनौ जलावतारे च मन्त्राद्यष्टादशस्वपि । पुण्यक्षेत्र तथा पाने तीर्थ स्यादर्शनेष्वपि ॥" इति ॥ ३७॥
For Private And Personal Use Only