SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir त्वत्सन्निधौ न वर्तते कच्चिदित्यर्थः ॥ ३० ॥ सङ्ग्राह्यसेनापतिगुणानाह-कच्चिद्दष्ट इति । दृष्यतीति हृष्टः राजकृतसत्कारेण सन्तुष्टः । यद्वा धृष्ट इति च्छेदः। धृष्टः व्यवहारेषु प्रगल्भः। शूरः परनिग्रहपरः। मतिमान् तत्तत्समयानुगुणवपरसेनाव्यूहतद्भेदनसेनानयनादिचतुरखुद्धियुक्तः। धृतिमान् विपदि प्रशस्तधैर्यः । शुचिः बाह्याभ्यन्तरशुद्धियुक्तः । यद्वा शुचिः स्वामिनि सविश्वासः । कुलीनः सत्कुलप्रसूतः । अनुरक्तः स्वस्मिनिरवधिकप्रीतिमान् । कच्चिद्धृष्टश्च शूरश्च मतिमान धृतिमाञ्छुचिः। कुलीनश्चानुरक्तश्च दक्षः सेनापतिः कृतः ॥३१॥ बलवन्तश्च कच्चित्ते मुख्या युद्धविशारदाः। दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिताः ॥३२॥ कच्चिद्वलस्य भक्तं च वेतनं च यथो चितम् । सम्प्राप्तकालं दातव्यं ददासि न विलम्बसे ॥३३॥ कालातिक्रमणाच्चैव भक्तवेतनयो ताः। भर्तुः कुप्यन्ति दुष्यन्ति सोऽनर्थःसुमहान स्मृतः॥३४॥ कच्चित् सर्वेऽनुरक्तास्त्वां कुलपुत्राःप्रधानतः। कच्चित्प्राणांस्तवार्थेषु सन्त्य जन्ति समाहिताः॥३५॥ कच्चिज्जानपदो विद्वान दक्षिणःप्रतिभानवान् । यथोक्तवादी दूतस्ते कृतोभरत पण्डितः॥३६॥ दक्ष कार्यकुशलः एवंविधः सेनापतिः कृतः कच्चित्, तादृशं पूर्वसेनापतिं विहायातादृशमन्यं न परिगृहीतवानसि कचिदित्यर्थः ॥३१॥ बलवन्त इति । बलवन्तः अत्यन्तबलाः। ते प्रसिद्धाः। मुख्याः गणमुख्याः। युद्धविशारदाः युद्धे समर्थाः। दृष्टं साक्षास्कृतम् अपदानं पूर्ववृत्तं पौरुषं येषां ते तथोक्ताः। विक्रान्ताः शूराः।"शूरो वीरश्च विक्रान्तः" इत्यमरः । सत्कृत्य मानिताः पारितोषिकदानपूर्वकं श्लाषिताः कच्चित् ॥ ३२ ॥ कच्चिद् बलस्येति । बलस्य सैन्यस्य । सम्प्राप्तकालं कालप्राप्तम्।दातव्यं तत्तत्काले देयम् । भक्तमन्नं वेतनं प्रतिमासं देयां भृतिं च । यथोचितं तत्तकार्योंचित ददासि । न विलम्बसे कच्चित् कालातिक्रमणं विना ददासि कच्चित् ॥ ३३ ॥ विलम्बे दोषमाह-कालातिक्रमणादिति । भृताः भृतिजीविनः, भटा इतियावत् । भर्तुः कुप्यन्ति भर्तारं प्रति कुप्यन्ति । दुष्यन्ति कोपेन विकृता भवन्ति, स विकारः सुमहाननर्थः स्मृतः अनर्थकरो भवेदित्यर्थः ॥३४॥ कच्चित् सर्व इति । कुलपुत्राः क्षत्रियकुलप्रसूताःज्ञातय इति वा। प्रधानतः प्रधानाः। सार्वविभक्तिकस्तसिः ॥ ३५॥ कच्चिजानपद इति । जानपदः धृतिमान् विपदि प्रशस्तधैर्यः । शुचिः बाह्याभ्यन्तरशुद्धियुक्तः । दक्षः चतुरः ॥३१॥ मुख्या गणमुख्याः। दृष्टापदानाः दृष्टमपदानं पूर्ववृत्तं पौरुषं कर्म येषां ते तथा। विक्रान्ताः शूराः ॥ ३२ ॥ भक्तमन्त्रम् एतद्रीह्यादीनामुपलक्षणम् । वेतनं भूतिः ॥ ३३ ॥ भूताः भृत्युपजीविनः ॥ ३४ ॥ कुलपुत्राः ज्ञातयः । प्रधानतः प्रधानाः ॥३५ ।। जानपद: जनपदे भवः। विद्वान पराभिप्रायज्ञः । प्रतिभागवान प्रत्युत्पन्नमतिः । पण्डितः परिच्छेसा ॥ ३६॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy