________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsuri Gyarmandir
www.kabatirth.org
नयनासभ्यनिरोधनयथोचितनिवेशनसभानिश्शब्दीकरणसभारक्षणादिविधायिजननिर्वाहकः । धर्माध्यक्षः दायभागादिविषये विवादं कुर्वतां विवाद पदविशोधनपूर्वकं यथाधर्मशास्त्रं विवादशमनकर्ता । दण्डपालः परस्वापहरणाद्यपराधकारिणां राजाज्ञाप्रकारेण करशिरश्छेदादिविधायिजननियो जकः। दुर्गपालः गिरिजलवनादिदुर्गसन्ततरक्षकजननिर्वाहकः । राधान्तपालः स्वराष्ट्रप्सीमान्ते सर्वासु दिक्षु परराजाक्रमणादिनिवारणाय सदा तदक्षणं
कच्चिद्यपास्तानहितान् प्रतियातांश्च सर्वदा । दुर्बलाननवज्ञाय वर्त्तसे रिपुमूदन ॥ ३८॥
कचिन्न लोकायतिकान् ब्राह्मणांस्तात सेवसे। अनर्थकुशला ह्येते बालाः पण्डितमानिनः ॥ ३९ ॥ कुर्वतां निर्वाहकः । स्वकीयमन्त्रिपुरोहितयुवराजा न परीक्ष्याः, तेषां सदा स्वसमीपवर्तित्वेन तत्स्वभावस्य स्वेनैव ज्ञातत्वात् । तथोक्तं नीतिशास्त्रे"चारान् विचारयेत्तीर्थेष्वात्मनश्च परस्य च । पापण्डादीनविज्ञातानन्योन्यमितरैपि । मन्त्रिणं युवराजं च हित्वा स्वेषु पुरोहितम् ॥” इति । स्वेषु॥ मन्त्रिणं युवराज पुरोहितं च हित्वेत्यन्वयः । एषां तीर्थशब्दवाच्यत्वमुक्तं हलायुधे-“योनौ जलावतारे च मन्त्राद्यष्टादशस्वपि । पुण्यक्षेत्र तथा पात्र तीर्थ स्यादर्शनेष्वपि॥” इति ॥ ३७॥ कच्चिद्यपास्तानिति । व्यपास्तान् निष्कासितान् । प्रतियातान् पुनरागतान् । अहितान् शत्रून् दुर्बलाननव ज्ञाय वर्तसे कच्चित्, दुर्बला इत्यवां कृत्वा न वर्तसे कच्चिदिति भावः। प्रतियानमवष्टम्भमन्तरेण न सम्भवतीति मत्वा तेषु सावधानतया स्थातव्य
भावः ॥३८॥ कच्चिन्नेति । लोकायतिकान् लोकेष्वायतं विस्तृतं लोकायतं प्रत्यक्षप्रमाणम् । यद्वा लोकायतशब्दाभ्यां प्रत्यक्षमनुमान चोच्यते।लोक्यते साक्षाक्रियतेऽननेति लोकः प्रत्यक्षप्रमाणम्, आ समन्ताव्याप्य धूमादिसमीपवर्ती वह्नयादिर्यत्यते गृह्यतेऽनेनेति आयतमनुमानं तदेषा मस्तीति लोकायतिकाः। “अत इनिठनौ” इति ठन् प्रत्ययः । नास्तिका बौद्धचार्वाकादयः तान् ब्राह्मणान् न सेवसे कच्चित् । असेवायाँ हेतुमाह अनर्थेति । अर्थेषु तत्त्वार्थेषु कुशलाः यथावज्ज्ञानवन्तः ते न भवन्तीत्यनर्थकुशलाः। यद्रा अनर्थः धर्मानुष्ठानश्रद्धाकल्यतन्मूलकसज्जनबहिष्कार नरकपतनादिः तत्र कुशलाः, दुर्बोधनेन तत्सम्पादका इत्यर्थः । बालाः तत्त्वज्ञानविरोध्यज्ञानयुक्ताः । अथ च पण्डितमानिनः अपण्डितमात्मानं व्यपास्तान निष्कासितान । प्रतियातान पुनरागतान् अहितान् शबून दुर्बलाननवज्ञाय वर्तसे कश्चित् ॥३८॥ लोकायतिकान चार्वाकान् । बालाः बालिशाः । अनर्थ
For Private And Personal Use Only