SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir टी.अ.को ॥२९६॥ स.१०० पण्डितं मन्वानाः । एते अनर्थकुशला हि ॥ ३९ ॥ अनर्थकुशलत्वमेवोपपादयति-धर्मशास्रष्विति । दुर्बुधाः वेदमार्गविपरीतबुद्धयः । ते मुख्येषु तामसस्मृतिपुराणादिव्यावृत्तेषु सात्त्विकमहर्षिप्रणीतेषु सज्जनादरणीयेषु । धर्मशास्त्रेषु धर्मप्रमापकशास्त्रेषु विद्यमानेषु तत्सम्प्रदायपरम्परया पठ्यमा नेषु सत्सु । आन्वीक्षिकी बुद्धि प्राप्य शुष्कतर्कविषयां बुद्धिमास्थाय । निरर्थ निष्प्रयोजनं प्रवदन्ति । " आर्ष धर्मोपदेशं च वेदशास्त्राविरोधिना। धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः । बुद्धिमान्वीक्षिकी प्राप्य निरर्थ प्रवदन्ति ते ॥ ४०॥ वीरैरध्यषितां पूर्वमस्माकं तात पूर्वकैः । सत्यनामां दृढद्वारा हस्त्यश्वरथसङ्कुलाम् ॥४१॥ ब्राह्मणैः क्षत्रियैवैश्यैः स्वकर्मनिरतैः सदा । जितेन्द्रियैर्महोत्साहैर्वृतामार्यः सहस्रशः ॥४२॥ प्रासादैविविधाकारैर्वृतां वैद्यजनाकुलाम् । कच्चित्सुमुदितां स्फीतामयोध्यां परिरक्षसि ॥४३॥ कच्चिच्चित्यशतैर्जुष्टः सुनिविष्टजनाकुलः । देवस्थानः प्रपाभिश्च तटाकैश्चोप शोभितः ॥४४॥ प्रहृष्टनरनारीकः समाजोत्सवशोभितः । सुकृष्टसीमा पशुमान हिंसाभिः परिवर्जितः ॥४५॥ यस्तकणानुसन्धत्ते स धर्म वेद नेतरः ॥” इति स्मृतेः॥ ४० ॥ वीररित्यादिश्लोकत्रयमेकं वाक्यम् । अयोध्या सत्यनामा परिरक्षसि कच्चित्, सत्य नामा “डाबुभाभ्यामन्यतरस्याम्" इति डाप् । अयोध्येति नाम सत्यं यथा भवति तथा रक्षसि कच्चिदित्यर्थः । सत्यनामात्वमूलं वीरैरध्युषिता मित्यादि । तत्फलानि सत्यनामावादीनि । आर्यैः पूज्यैः। तत्र हेतवः स्वकर्मनिरतत्वादयः ।वैद्यजनाकुला वैद्यजनाः विद्वज्जनाः तैरावृताम् । सुमुदिता सुसन्तुष्टजनामित्यर्थः । स्फीतां समृद्धाम् ॥११-१३ ॥ कच्चिच्चित्यशतैरित्यादिश्लोकचतुष्टयमेकं वाक्यम् । चित्यशतैः चैत्यशतेरिति च पाठः । उभयत्रापि अश्वमेधान्तमहायज्ञचयनप्रदेशसमूहैरित्यर्थः । सुनिविष्टजनाकुलः सुप्रतिष्ठितजनव्याप्तः। सुप्रतिष्ठितत्वं च राजन्यत्वसुवृष्टयारोग्यादिदेश गुणाकृष्टचित्ततया देशान्तरजिगमिषाराहित्येन तत्रैवासक्तत्वम् । देवस्थानः देवालयैः । प्रपाभिः पानीयशालाभिः, मार्गप्रवर्तिताभिरिति शेषः । "प्रपा पानीयशालिका" इत्यमरः । तटाकैः सस्यादिवृद्धिनिमित्तैर्महाजलाशयैः । समाजोत्सवशोभितः समाजैः धर्मनिर्णयार्थसभाभिः शोभितः कुशलाः अनर्थसम्पादने चतुराः ॥ ३९॥ धर्मशास्त्रेविति । दुर्बुधाः वेदमार्गविपरीतधुद्धयः । आन्वीक्षिकी बुद्धिं प्राप्य शुष्कतर्कविषयो बुद्धिमास्थाय ॥ ४०॥ वीररित्यादि । अयोध्या सत्यनामा परिरक्षसि कश्चित् अयोध्येति नाम सत्यं यथा तथा रक्षसे कश्चित् ॥ ४१-४३ ॥ प्रपाभिः पानीयशालाभिः ॥ ४५ ॥ ४५ ॥ ॥२९॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy