Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 11
________________ धात्वर्थनिर्णयः। त्रमर्थइति फालतम् तथा च करोतीत्यादौ यत्नप्रतीतेस्तन्मानं वाच्यमभ्युपेयम् तथा च यती प्रयत्नइतिवत् फलस्थानीय यनवाचकत्वाविशेषादकम्मकतापत्तिः उक्तरीत्या दुर्बोरेति तथा च ( नहि यत्नः ) इत्या फलस्थानीयत्वेनेति शेषः (कुत्रः) इति धातुमात्रोपलक्षणं सर्वेषामप्यकर्मकता सकर्मकता वा स्यादति भावः अथ वा (व्यापारो भावना) इत्यर्धेन व्यापारस्य वाच्यत्वं प्रसाध्य फलांशस्यापि तत्साधयन् नैयायिकाभ्युपगतं जानाति करोतीत्यादेः केवलशानयत्नादि क्रियामात्रवाचित्वं दूषयति (कुत्र इति)। अयंभावः फलांशस्यावाच्यत्वे व्यापारएव धात्वर्थः स्यात् तथा च स्वार्थफलव्यधिकरणव्यापारवाचितवादिरूपसकर्मकतवोच्छदापत्तिः। नच कुत्रादौसकर्मकत्वव्यवहारोभाक्तइति नैयायिकोक्तं युक्तम । व्यवहारस्य भाक्तत्वेऽपि कर्मणि * लकारासमभवात् । न हि तीरे गंगापदस्य भाक्तत्वेपिंऽपि तेन स्नानादिकार्य कर्तुं शक्यम् । एवञ्च (नहि यत्न) इत्यत्र यत्नमात्रमित्यर्थः॥५॥ ___ अतएवाह किन्तूत्पादनमेवातः कर्मवत्स्यात् यगाद्यपि । कर्मकर्तर्य्यन्यथा तु न भवेत् तदृशेरिव॥६॥ (उत्पादनम् ) उत्पत्तिरूपफलसाहित यत्नादि कृअर्थडत्यर्थः। फलस्य वाच्यत्वे युक्तयन्तरमाह (अतइत्यादि) यतः कृत्रीय त्नमात्रमोंनेष्यते (अतः कर्मवत्स्यादिति) पदेन कर्मवत्कर्मणा * मुख्यसकर्मकत्वमादाय शास्त्रस्य चारितार्थ्ये गौणे तद्वयापारे मानाऽभावादिति भावः।

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 140