Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 29
________________ धात्वर्थनिर्णयः गुणभूता इन्यादिभिरित्यर्थः । नच वृत्तिमात्रे समुदायशक्तेर्वक्ष्यमाणत्वातत्रान्तर्गता भावना पदार्थकदेशइति कथं तत्रान्वयइति वाच्यम् नित्यसापेक्षेष्वेकदेशेऽपि “देवदत्तस्यगुरुकुलं ”““चैत्रस्यनप्ते त्यादाविवान्वयाभ्युपगमात् । एवं भोक्तुं पाकः भुक्त्वा पाकइत्यपि द्रष्टव्यम् ।। १९ ।। अतिप्रसङ्गमाशङ्कय संमाधत्ते । २९ कृत्वोर्थाः क्त्वातुमुन्वत्स्युरिति चेत्सन्ति हि क्वचित् अतिप्रसङ्गोनोद्भाव्योऽभिधानस्य समाश्रयात् ॥ भोक्तुं पाकः भुक्त्वा पाकइत्यादौ “तुमुण्ण्वुलौं क्रियायां क्रियार्थायाम्” “समानकर्तृकयोः पूर्व्वकाल,, इति क्रियावाचकोपपदे क्रिययोः पूर्वोत्तरकाले विधीयमाना अपि तुमुन्नादयो गुणभूतां तामादाय यथा जायन्ते तथा कृत्वोऽर्था अपि स्युः । एकः पाकइत्यत्र “एकस्य सकृच्च, द्वौपाक त्रयश्चत्वारइत्यत्र “द्वित्रिच - तुर्भ्यः सुच्,, । पञ्चेत्यत्र कृत्वसुच् स्यात् । तथा च सकृत्पाकः द्विः त्रिश्चतुः पाक इत्याद्यापत्तिरिति चेदिष्टापत्तिः द्विर्वचनामित्यादिदर्शनात् । . अतिप्रसङ्गस्त्वनभिधानान्नेत्याह । अतीति । “नहिवचिरन्तिपरः प्रयुज्यत, इत्याद्यभियुक्तोक्तरीत्या समाधेयमिति भावः । कोचत्तु “क्रियाभ्यावृत्तिगणन, इत्यत्र क्रियाग्रहणं व्यर्थ तस्याए - * तथा च गुरुत्वादेरन्यनिरूप्यत्वेन तदुपस्थितौ नियमेन जायमानाया निरूपकाऽऽकाङ्क्षाया निवृत्तये देवदत्ताऽऽद्यन्वयवत्प्रकृतेऽपि किं साधकं गमनरूपसाध्यमिति साधनाऽऽकाङ्क्षानिवृत्तये ग्रामादिकर्माऽन्वयस्याऽऽवश्यकत्वान्न दृष्टान्ताऽसङ्गतिरिति भावः ।

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140