Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 73
________________ नअर्थनिर्णयः। तदर्थोनअर्थः अर्थपदं द्योत्यवाच्यत्वपक्षयोस्साधारण्येन कीर्तनाय भाष्यस्योत तथा च नञ् सूत्रे महाभाष्यम् निवृत्तपदार्थकइति निवृत्तं पदार्थोयस्य नपुंसके भावे क्त इति क्तः अभावार्थकइत्यर्थः। यत्तु निवृत्तः पदार्थोयस्मिन्नित्यर्थः सादृश्यादिनाध्यारोपितब्राह्मण्याः क्षत्रियादयोऽर्था यस्येत्यर्थइति कैयटः तन्न आरोपितब्राह्मण्यस्य क्षत्रियादेरनब्वाच्यत्वात् । अन्यथा सादृश्यादेरपि वाच्यतापत्तेः । यत्तु तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता। ' अप्राशस्त्यं विरोधश्च नअर्थाः षट् प्रकीर्तिता इति । पठित्वा अब्राह्मणः अपापम् अनश्वः अनुदरा कन्या अ. पशवोवा अन्ये गोऽश्वेभ्यः अधर्म इत्युदाहरन्ति तत्त्वार्थकार्थमभिप्रेत्यति स्पष्टमन्यत्र । बिशेषणमिति प्रतियोगिनीति शेषः । तथाच सर्वपदे सर्वनामसंज्ञा । “ अनेकमन्यपदार्थे " "सेव्यतेऽनेकयासन्नतापाङ्गया" इत्यादावेकशब्दार्थप्राधान्यादेकवचननियमः । अब्राह्मण इत्यादावुत्तरपदार्थप्राधान्यात्तत्पुरुषम् । अत्वं भवसि अनहं भवामीत्यादौ पुरुषवचनादिव्यवस्था चोपपद्यते अन्यथा त्वदभावोमदभावइतिवदभावांशे युष्मदस्मदोरन्वयेन युष्मत्सामानाधिकरण्यस्य तिवसत्त्वात्पुरुषव्यवस्था न स्यात् । अस्मन्मते च भेदप्रतियोगित्वादभिनायिका भवनक्रियेत्यन्वयात्सामानाधिकरण्यं नानुपपन्नमिति भावः । विशेष्योवेति प्रतियोगिनीति शेषः । अयं भावः गौणत्वेऽपि नसमासे "एतत्तदोः सुलोपोऽकोरनञ् समासे

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140