Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 90
________________ वैयाकरणभूषणसारे। काले" इत्यादिसूत्राणां कागतिस्तत्राह समानकर्तृकत्वादीति । अयं भावः भोक्तुं पंचति भुक्त्वा व्रजतीयादावेकवाक्यता सर्वसिद्धा भोजनपाकक्रिययोर्विशेषणविशेष्यभावमन्तरेणानुपपन्ना अन्यथा भुङ्क्ते व्रजतीत्यादावण्येकवाक्यतापत्तेः । तथा च तयोविशेषणविशेष्यभावनिरूपकः संसर्गो जन्यत्वं सामानाधिकरण्यं, पूर्वोचरभावो व्याप्यत्ववेत्यादिरनेकविधः। तथा च भोक्तु पचति भुक्त्वा तृप्तः इत्यादौ भोजनजनिका पाकक्रिया, भोजनजन्या वृप्तिरिति बोधः । अतएव जलपानानन्तर्यस्य तृप्तौ सत्त्वेऽपि पीत्वा तृपइति न प्रयोगः । सामानाधिकरण्यस्यापि संसर्गत्वेनार्थात्समानकर्तृकत्वमपि लब्धम् । भुक्त्वा बजतीत्यादौ पूर्वोत्तरभावः सामानाधिकरण्यश्च संसगेइति भोजनसमानाधिकरणा तदुत्तरकालिकी वजनक्रियेति बोधः। अधीत्य तिष्ठति, मुखं व्यादाय स्वपितीत्यादावध्ययनव्यादानयोरभावकाले अप्रयोगात् यदा यदास्य स्थितिः स्वा. पश्च तदा तदाध्ययनं मुखव्यादानश्चेति कालविशेषावच्छिन्नव्याप्यत्वषोधायाप्यत्व सामानाधिकरण्यश्च संसर्गः । एवञ्चान्यलभ्यत्वान्न सूत्रात्तेषां वाच्यत्वलाभइति युक्तमव्ययकृतोभावे इति एवञ्च प्रकृत्यर्थक्रिययोः संसर्गे तात्पर्यग्राहकत्वरूपं द्योतकत्वं क्त्वादीनाम् । अतएव “समानकर्तृकयोरिति" सूत्रो स्वशब्देनोपात्तत्वानोत भाष्यप्रतीकमादाय पौर्व्यापयंकाले द्योत्ये कत्वादिर्विधीयते न तु विषये इति भाव इति कैयटः । यत्तु समानकर्तृकयोोति सूत्रात्समानकर्तृकत्वं क्त्वावाच्यम् अन्य

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140