Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown
View full book text
________________
कारकवादार्थः ।
काढं पचति, स्थाली पचतीत्यादिप्रयोगवशात्करणादीनां कर्तृत्वमिष्टं तदा पच्यत ओदनः स्वयमेवेत्यादी कर्मकर्तृकर्मणोऽपि तदिष्टं ओदनः स्वयं पचतीत्यप्रयोगस्त्वसाधुत्वात् । कर्माख्यातयागादिह विभाव्यते । कर्मत्वविशिष्टस्य कर्तृत्वरूपतावारणाय तदुपादेयं । नहि कर्मत्वादेः कर्तृत्वरूपत्वे "अनभिहिते कर्त्तरि" इत्यनुशासनार्थः संगच्छते इत्याहुः । यत्तु "स्वतंत्रः कर्त्ता" इति पाणिनिसूत्रात्कारकांतराप्रयोज्यत्वे सति कारकांतरप्रयोजकत्वं कर्तृत्वं । सत्यंतेन पुरुषादिजन्यसंयोगरूपव्यापारवत्त्वरूपं तत् । प्रयोज्यत्ववत्कुठारादेर्व्युदासः । तन्न | ईश्वरप्रयोज्यानां जीवानां कर्तृत्वानापत्तेः । दण्डजन्यसंयोगरूपव्यापारवति कुलालादावव्यातिश्चेति दिक् ॥ कर्मत्वं न करणव्यापारित्वं । तद्धि करणजन्यव्यापारवत्त्वं । दात्रेण धान्यं लुनातीत्यादौ हस्तादिकरणव्यापारवति दात्रादावतिव्याप्तम् । नापि परसमवे - तक्रियाजन्यफलशालित्वं । गमिपत्योः कर्मत्वस्य पूर्वस्मिन्देशे त्यजेश्चोत्तरस्मिन्देशे स्यंदेः पूर्वपरयोः प्रसंगात् । नदी वर्द्धत इत्यादौ वृद्धेरवयवोपचयरूपायाः परंपरया तीरप्राप्तिरूपयत्नस्याश्रये तीरे कर्मत्वप्राप्तिश्चेत् - अत्र वदन्ति - ' धात्वर्थतावच्छेदकफलशालित्वं कर्मत्वं ' तादृशं फलं गमेः संयोगस्त्यजेर्विभागः पतेरधः संयोगस्तदवच्छिन्ने स्पन्दे शक्तिः । स्पन्दमात्रे तेषां शक्तौ पर्यायतापत्तेः । स्पन्देर्वृध्वातोश्च न फलावच्छिन्नव्यापारे शक्तिरिति न कोपि दोषः । फलावच्छिन्नव्यापारबोधकत्वादेव धातूनां सकर्मकत्वव्यापारो मुख्यः । ज्ञाधात्वादीनां नामार्थान्वितोद्देश्यत्वातिरि

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140