Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 109
________________ ५ । कारकवादार्थः । रुक्तक्रियाद्वयरूपफलान्वयिनोरजापयसेोमुख्य कर्मत्वम् । तादृशक्रियानुरूपफलान्वितान्वयिनोर्गोग्रामयोगौणकर्मत्वम् उभयत्रापि धात्वर्थान्वितविभत्तयर्थान्वितत्वमस्ति । फल - द्वयस्यापि धात्वर्थतावच्छेदकत्वात् । अत एव कर्मद्वयसाकांक्षफलबोधकधातुत्वं द्विकर्मकत्वं सूपपादं । यत्तु विभा गानुकूलक्रिया दुहेरर्थः, संयोगानुकूलक्रिया नयतेरर्थः । नतु तदुभयानुकूल कर्तृव्यापारः कर्मद्वयस्याप्येकत्र फले अन्वय इति । तन्न । प्रयोज्ययोः कर्मत्वानुपपत्तेः- परसमवेतत्वस्य क्रियायामभावात् । कर्मद्वयस्याप्येकत्र अन्वये च गौणमुख्यव्यवहारो न स्यात् । एतेन विभागाद्यनुकूला कर्तृगता चैटैव दुहादेरर्थः इत्यपास्तम् । फलद्वयाप्रवेशे गौण मुख्यव्यवहारानुपपत्तेः । यद्यपि गामित्यस्यार्थो गोवृत्तित्वं पयस्येवान्वेतीति गौणं कर्म न लक्ष्यं इति । तदपि न । गौः पयो दुह्यते इत्यादौ गोः कर्मत्वस्य दुरुपपादत्वात् । अजां ग्राममित्यादौ ग्रामवृत्तित्वस्य प्रागजायामसत्त्वेनान्वयायोगात् । काशीतः प्रयागे नीयमानामजां काशीं नयतीति प्रयोगापत्तेश्च । तत्र तत्तत्क्रियानुकूलकृतिमत्त्वं तत्तत्क्रियाकर्तृत्वं । काष्ठादौ पाकाव्यनुकूलव्यापारवत्त्वप्रतिसंधानेऽपि कर्तृपदाप्रयोगात्, कृताकृतविभागादिना सिद्धयत्नशक्तिकेन कुधातुना तृर्जतेन सिद्धस्य कर्तृपदस्य यत्नाश्रयबोधकत्वाच्च ॥ अचेतनेऽपि कर्तृपदप्रयोगस्तु गौणः । गुरुतरभारोत्तोलनादिक्रियाविषयकयत्नसत्त्वेऽपि तत्क्रियाया अनिष्पत्तौ तत्क्रियायां कर्तृत्वाव्यवहारात्-विषयत्वं विहायानुकूलत्वमुपात्तं ॥ यदि च मत्तो भूतं न तु W

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140