Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 108
________________ कारकवादार्थः। शाब्दिकाः । अत एव "गुरुविप्रतपस्विदुर्गतानां प्रतिकुर्वीत भिषक्स्वशेषजैरि " त्यादौ, “ सा लक्ष्मीरुपकुरुते यया परेषामि” त्यादौ च रोगे विपत्तौ चेत्यादिपदाध्याहारेणैव बोधः । यदिच विनाध्याहारं पष्ठ्यर्थसंबंधस्य क्रियायामन्वयः प्रामाणिकस्तदा क्रियान्वितकर्तृत्वकर्मत्वादिषडन्यतमान्वयित्वं कारकत्वं बोध्यम् । अत एव " चर्मणि द्वोपिनं हंति दंतयोहंति कुंजरं । केशेषु चमरी हंति सीनि पुष्कलको हतः ॥” इत्यादौ निमित्तादेरपि न कारकत्वं । एतादृश्य उपपदविभक्तयो नतु कारकविभक्तयः। गां दोग्धि पयः, अजां ग्रामं नयतीत्यादौ गौणमुख्यकर्मद्वयमपि लक्ष्य। अत्र हि द्रवद्रव्यविभागानुकूलक्रियानुकूलव्यापारविशेषः कर्तुनिष्ठो दुहेरर्थः । वायुर्वृक्षं पर्ण दोग्धीति वारणाय द्रवद्रव्येति देयं । मेघो गगनं जलं दोग्धीति वारणाय विशेषेति। विशेषो हि दुहिधातुप्रयोगगम्यः । इत्थं च द्रवद्रव्येति न देयमिति वदंति । संयोगानुकूलक्रियानुकूलव्यापारस्तादृशो नीधातोरर्थः । तत्राद्य विभागे गामित्यस्य क्रियायां पय इत्यस्यान्वयात् गोवृत्तिविभागानुकूलपयोवृत्तिक्रियानुकूलव्यापारानुकूलकृतिमानिति वाक्यार्थः। द्वितीये तु ग्राममित्यस्य संयोगेऽजामित्यस्य क्रियायामन्वयात् ग्रामवृत्तिसंयोगानुकूलअजावृत्तिक्रियानुकूलव्यापारानुकूलकतिमानिति वाक्यार्थः ॥ साक्षादात्वर्थतावच्छेदकनि १ गुरुविप्रतपस्विदुर्गतनिरूपितसंबंधशालिरोगनिष्ठविषयतानिरूपितविषयताशालिस्वनिरूपितसंबंधशालिस्वत्वविशिष्टभेषजनिष्ठकारणतानिरूपितजन्याश्रयबलबलिष्ठाननुबंधिस्वेष्टसाधनीभूतकृतिसाध्यत्वाश्रयप्रतीकारानुकूलकृतिमानिति बोधः.

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140