Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown
View full book text
________________
॥श्रीः॥ अथ कारकवादार्थः।
नत्वा शम्भोः पदांभोज जयरामः समासतः ॥ करोति कारकव्याख्यामिह संख्यावतां मुदे ॥१॥
कारकाणि कर्तृकर्मकरणसम्प्रदानापादानाधिकरणानि षट् । कारकत्वं च नाम क्रियानिमित्तत्वं । चैत्रस्य तंडुलं पंचतीत्यादौ संबंधिनि चैत्रादावतिव्याप्तेः । अनुमतिप्रकाशनद्वारा संप्रदानादेरिव तंडुलादिसंपादनद्वारा संबंधिनोऽपि पाकादिक्रियानिमित्तत्वात् । किंतु क्रियान्वितविभक्त्यान्वितत्वं । अस्ति च कर्नादीनां क्रियान्विततिङ्सुब्बिभक्त्यर्थान्वयः । नतूदाहृते संबंधिनि षष्ठयर्थसंबंधस्य । तंडुलादिनामार्थान्विततया क्रियानन्वितत्वात् । चैत्रस्य पचतीत्यादावपि तंडुलादिपदाध्याहारेणैव बोधः । षष्ठयर्थसंबंधस्य तंडुलादिनामाथैरेव क्रियायाः कर्मत्वादिनैव साकांक्षत्वात्परस्पराकांक्षाविरहात् । ओदनस्य भोक्ता चैत्रस्य पाक इत्यादौ कर्तृत्वकर्मत्वार्थिका षष्ठी कारकविभक्तिरेव । “कर्तृकर्मणोः कृति " इत्यनेन तद्विधानात् । अत एव संबंधस्य न कारकत्वं, क्रियायोगाभावादिति
र क्रियानिष्ठजन्यतानिरूपितजनकताशालित्वं तत्. २ चैत्रनिरूपितस्वत्वशालितंडुलान्यासमवेततंडुलसमवेतधात्वर्थतावच्छेदकविक्लित्त्यनुकूलवर्त्तमानव्यापारानुकूलकृतिमानिति वाक्यार्थः.

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140