Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown
View full book text
________________
कारकवादार्थः। मया कृतमिति व्यपदेशान्नान्तरीयककतिसाध्यस्य पिष्टमध्यस्थशर्कराभोजनस्य न कर्तृत्वं तदा विषयत्वमपि निवेश्यं । तच्च साध्यत्वेन । तेन यागादिकतेरुद्देश्यत्वेन स्वर्गादिविषयकत्वेऽपि न यागादिकर्तुः स्वर्गकर्तृत्वम् । अस्मदादिकर्तृकयागादिकर्तृत्वमीश्वरस्येष्टम् । तथा विवक्षायामीशः पचतीति प्रयोगोऽपीष्ट एव ॥ न चेत् कार्यत्वानवच्छिन्नजन्यतानिरूपितत्वमसाधारणत्वं निवेश्यमिति नैयायिकाः । वैयाकरणास्तु “ अनभिहिते कर्तरि ” इत्यनुशासनात्-अचेतनेऽपि कर्तृपदप्रयोगाकियाश्रयत्वमेव कर्तृत्वं । कारककर्मादिपदवत्कधातुरप्यत्र क्रियार्थक एवाश्रयत्वमिहाख्यातार्थः । तथाच यागाद्यसमभिव्याहृताख्यातेन यद्धात्वान्वितयधर्मवत्त्वं बोध्यते तद्धात्वर्थनिरूपिततद्धर्मवत्त्वं तद्धात्वर्थकर्तृत्वं । यथा पचतीत्यादौ पाकानुकूलव्यापारवत्त्वं, जानातीत्यादौ ज्ञानाश्रयत्वं, नश्यतीत्यादौ नाशप्रतियोगित्वं इति । चैत्रेण तंडुलः पच्यते इत्यादौ पाकजन्यफलाश्रयत्ववारणाय यागाद्यसमभिव्याहृतेति । अत्रचैत्रादेः कर्तृत्वं तु पचतीत्याद्याख्यातबोध्यधर्ममादायैवेति बोध्यं । धात्वान्वितद्वितीयाद्यर्थकर्मत्वकरणत्वमादायाख्यातेनेति । जानातीत्याद्याख्यातार्थ आश्रयत्वं न पाककर्तृत्वं । हंतीत्यादौ हिंसाश्रयत्वं न गमनकर्तृत्वमित्येतत्संपत्तये यत्तदिति धात्वर्थविशेषणं । यदि च
१ तेन-शक्त्यातक्रियाविषयकतत्तक्रियानिष्ठकार्यत्वावच्छिन्न जन्यतानिरूपितजनकताशालिकृतिनिष्ठाधेयतानिरूपिताधिकरण. ताशालित्वं नाम कर्तृत्वम्.

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140