Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 99
________________ स्फोटनिरूपणम् । · विकल्पग्रासाच्च । ननु त्वन्मतेऽप्येष दोषः तत्तद्वर्णोत्पादकत्वेनाभिमतवायुसंयोगानां प्रत्येकं व्यञ्जकत्वं समुदितानां वेति विकल्पस्य सद्भावादिति चेत्, उच्यते प्रत्येकमेव संयोगा अभिव्यञ्जकाः परन्तु केचित् गत्वेन केचिदौत्वेन केचिद्विसर्गत्वेनेत्यनेकैः प्रकारैः । अतएव वर्णानां तदतिरेकास्वीकारोऽप्युपपद्यते । एवञ्चाव्यवहितोत्तरत्वसम्बन्धेन घवत्त्वं टकारे गृह्यते, एतादृशपदज्ञानकारणताया अविवादात् परं त्वव्यवहितोत्तरत्वं स्वज्ञानाधिकरणक्षणोत्पत्तिकज्ञानविषयत्वं वाच्यम् । अतएव घज्ञानानन्तरटज्ञानविषयत्वरूपानुपूर्वीत्यादि नैयायिकवृद्धानां व्यवहारः । एवञ्च न कश्चिदोषः । एतेन पर्य्यायस्थलेष्वेकएव स्फोटोनाना वा । नायः घटपदे एव गृहीतशक्तिकस्य कलशादेर्बोधप्रसङ्गात् । नच तत्पर्य्यायाभिव्यक्ते शक्तिग्रहस्तत्पर्य्यायश्रवणेऽर्थधीहेतुारीति वाच्यम् एवं सति प्रतिपर्य्यायं शक्तियहावश्यम्भावेन तत्तत्पर्य्ययगतशक्तिग्रहहेतुताया उचितत्वात् । तथा सतेि शक्तिग्रहत्वेनैव हेतुत्वे लाघवात् । अन्यथा तत्पर्य्यायाभिव्यक्तगतशक्तिमहत्वेन तत्त्वे गौरवात् । न द्वितीयः अनन्तपदानां तेषां शक्तिश्चापेक्ष्य क्लृप्तवर्णेष्वेव शक्तिकल्पनस्य लघुत्वादीत परिमलोक्तमपास्तम् । पर्य्यायेष्वनेकशक्ति स्वीकारस्य सर्व्वसिद्धत्वात् तदवच्छेदकानुपूर्व्याः प्रागुपपादनादिति दिक् । शब्दकौस्तुभे तु वर्णमालायां पदमिति प्रतीतेर्वर्णातिरिक्तएव स्फोटः अन्यथा कपालातिरिक्तघटाद्यसिद्धिप्रसङ्गश्चेति प्रतिपादितम् ॥ ६६ ॥ ९९

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140