Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown
View full book text
________________
१०४ वैयाकरणभूषणसारे। इति"। "ब्रह्मतत्त्वमेव शब्दस्वरूपतया भातीति" च । कथं तर्हि ब्रह्मदर्शने च गोत्वादिजातेरप्यसत्त्वादनित्यत्वम् , आत्मैवेद सर्वमिति श्रुतिवचनादिति कैयटः सङ्गच्छताम् ? अविद्या आविधिको धर्मविशेषोवेति पक्षान्तरमादायोत द्रष्टव्यम् ॥ ७० ॥
तमेव सत्यांशं स्पष्टयति । इत्थं निष्कृष्यमाणं यच्छब्दतत्त्वनिरञ्जनम्। ब्रह्मवेत्यक्षरं प्राहुस्तस्मै पूर्णात्मने नमः।७२।
अयं भावः "नामरूपे व्याकरवाणीति" भूतिसिद्धाद्वयी सृष्टिः तत्र रूपस्येव नाम्नोऽपि तदेव तत्त्वम् । प्रक्रियांशस्त्वविद्याविजृम्भणमात्रम् । उक्तश्च वाक्यपदीये। . __शास्त्रेषु प्रक्रिया दैविद्यैवोपवर्ण्यते ।
समारम्भस्तु भावानामनादि ब्रह्म शाश्वतमिति । ब्रह्मैवेत्यनेन " अायं पुरुषः स्वयं ज्योतिः" " तमेव भान्तमनुभाति सर्च" " तस्य भासा सर्वमिदं विभातीति" श्रुतिसिद्धं स्वपरप्रकाशत्वं सूचयति । स्फुटत्यर्थोऽस्मादिति स्फोट इति यौगिकस्फोटशब्दाभिधेयत्वं सूचयति । निर्विघ्नप्र चयायान्ते मङ्गलं स्तुतिरूपमाह । पूर्णात्मने इत्यादिना ॥७१॥
अशेषफलदातारमपि सर्वेश्वरं गुरुम् ।
श्रीमद्भषणसारेण भूषये शेषभूषणम्॥ इति श्रीमद्रगाोजिभट्टात्मजकौण्डभट्टकृते वैयाकरणभूषणसारे
स्फोटवादः समाप्तश्चायं ग्रन्थः। तूर्याङ्गनवचन्द्रेऽब्दे नवम्यां श्रावणेऽसिते । काशीयन्त्रालये काश्यां कवौ पूर्ण स्सुमुद्रणात् ॥ त्रिपाठिलक्ष्मणेनायं परिशोध्य प्रकाशितः । यद्यत्र दृष्टिदोषेण दोषश्चेद्भष्यताम्बुधैः ।।

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140