Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown
View full book text
________________
स्फोटनिरूपणम् ।
१०३
व प्रतीत्यवच्छेदकत्वयोर्निर्वाहः घटघटत्वादेरपि संयोगविशिष्टमृदा आकारादिभिश्चान्यथासिद्ध्यापत्तेः तस्मात्सा जातिरेव वाचिका तादात्म्येनावच्छेदिका चेति नतु सरोरस इत्यादौ जात्योः सत्त्वादर्थभेदबोधोन स्यादित्यत आह औपाधिको वेति वा स्वर्थे उपाधिरानुपूर्वी सैव जातिविशेषाभिव्यञ्जिक्रेति भेदः कारणीभूतज्ञानस्येति नातिप्रसङ्गाइति भावः उपाधिप्रयुक्तज्ञानवैलक्षण्ये दृष्टान्तमाह वर्णानामिति ॥ ६८ ॥
ननु जातेः प्रत्येकं वर्णेष्वपि सच्चात् प्रत्येकादर्थबोधः स्यादित्यत आह । अनेकव्यक्तयभिव्यङ्ग्याजातिः स्फोटइतिस्मृता कैश्चिव्यक्तय एवास्या ध्वनित्वेन प्रकल्पिताः ७०
अनेकाभिर्वर्णव्यक्तिभिरभिव्यङ्गैव जातिः स्फोटइति स्मृता योगार्थतया बोधिकेति यावत् । एतेन स्फोटस्य नित्यत्वात्सवर्थबोधापत्तिरित्यपास्तम् । अयं भावः यद्यपि वर्णस्फोटपक्ष कथितदोषोऽस्ति तथापि पदवाक्यपक्षयोर्न, तत्र तस्या व्यासज्यवृत्तित्वस्य धार्मग्राहकमानासिद्धत्वादिति कैश्चिद्व्यक्तयो ध्वनय एव ध्वनिवर्णयोर्भेदाभावादित्यभ्युपेयन्ते इति शेषार्थः । उक्तं हि काव्यप्रकाशे “ बुधैर्वैयाकरणैः प्रधानीभूतस्फोटरूपव्यङ्ग्यव्यञ्जकस्य शब्दस्य ध्वनिरिति ब्यवहारः कृत " इति । ६९ । ननु का सा जातिस्तत्राह ।
सत्यासत्यौ तु यौ भागौ प्रतिभावं व्यवस्थितौ । सत्यं यत्तत्र सा जातिरसत्या व्यक्तयोमताः ७१
( प्रतिभावम् ) प्रतिपदार्थम् । सत्यांशोजाति असत्या व्यक्तयः। तत्तद्व्यक्तिविशिष्टं ब्रह्मव जातिरिति भावः । उक्तञ्च कैयटेन “असत्योपाध्यवच्छिन्नं ब्रह्मतत्त्वं द्रव्यशब्दवाच्यमित्यर्थ

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140