Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown
View full book text
________________
९८ . वैयाकरणभूषणसारे । दृष्टान्तव्याजेनाह वर्णेष्विति । एकारौकारऋकारादिवर्णेषु अवयवाः प्रतीयमाना अपि यथा नेत्यर्थः । कचित् इवेत्येव पाठः । एवं वाक्येऽप्याह, वाक्यादिति, पदानामपि वाक्याद्विवेकोभेदोनास्तीत्यर्थः । अयं भावः । वाक्यं पदं चाखण्डमेव न तु वर्णसमूहः, अनन्तवर्णकल्पने मानाभावात् । तत्तद्धोत्पादकत्वेनाभिमतवायुसंयोगनिष्ठं तत्तद्वर्णजनकताया व्यञ्जकताया वावच्छेदकं वैजात्यमादायैव ककारो गकार इत्यादिप्रतीतिवैलक्षण्यसम्भवात् । स्पष्टं हि भामत्यां " तारत्वादि, वायु निष्ठं वर्णेष्वाराप्यत" इत्युक्तं देवताधिकरणे । नचैवं वायुसंयोगएव वाचकोऽपि किं न ? स्यादिति वाच्यम् प्रत्यक्षोपलभ्यमानककारादेरेव वाचकत्वस्यानुभवसिद्धत्वात् । तथा च वाचकत्वानुपपत्त्या तदेवेदं पदं तदेवेदं वाक्यं सोऽयंगकारइति प्रतीत्या च स्फोटोऽखण्डः सिध्यति ॥ एतेन गौरित्यादौ गकारौकारविसगांदिव्यतिरेकेण स्फोटाननुभवात् श्रूयमाणवर्णानामेव वाचकत्वमस्तीत्यपास्तम् तेषां स्फोटातिरिक्तत्वाभावात् । यत्त वर्णानां प्रत्येकं वाचकत्वे प्रत्येकादर्थबोधापत्तिः । समूदायस्य तु क्रमवतामाशुतरोत्पन्नानां तथैवाभिव्यक्तानां वा ज्ञानमसम्भाव्यमेव । पूर्वपूर्ववर्णानुभवसंस्कारसहकारेणैकदा समूहालम्बनरूपसकलज्ञानसम्भवस्तु सरोरसः जराराजनदीदीनादिसाधारणइत्यतिप्रसङ्गइति स्फोट एवाखण्डो नादाभिव्यङ्गयो वाचकइति कैयटः । तत्तच्छम् पदज्ञानसम्भवस्योपपादितत्वात् । वर्णानां प्रत्येकं व्यञ्जकत्वं, समुदितानां वेत्यादि

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140