Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 96
________________ वैयाकरणभूषणसारे । यशक्तिज्ञानाच्छाब्दबोधात्समुदायेऽप्यावश्यका शक्तिः एवञ्च प्रकृतिप्रत्ययेषु विशिष्याज्ञायमानेष्वपि समुदायव्युत्पत्त्या बोधातत्राप्यावश्यिकैव शक्तिरिति भावः । वस्तुतः पदैः पदार्थबोधवद्वाक्येन वाक्यार्थबोध इति पदार्थशक्तिः पदेष्विव वाक्यार्थशक्तिर्वाक्येऽभ्युपयेोति पदस्फोटवाक्यस्फोटौ व्यवस्थितौ । अन्यथा घटः कर्म्मत्वमानयनं कृतिरित्यादौ तादृशब्युत्पत्तिरहितस्यापि बोधप्रसङ्गः । घटमानयेत्यत्रेव पदार्थानामुपस्थितौ, सत्यपि तात्पर्यज्ञाने बोधाभावाच्च । तत्रैव घटकमकमानयनमिति बोधे घटार्थकप्रातिपदिकात्तरकम्मत्ववाचकविभक्तेस्ततोधातोस्तत आख्यातस्य समभिव्याहारः कारणमिति कार्यकारणभावज्ञानवतोबोधातज्ज्ञानमपि हेतुरिति चेत्तर्हि सिद्धो वाक्यस्फोटः । घटादिपदार्थबोधे बोधकतारूपपदशक्तिज्ञानकाकारणभावस्यैव विशिष्टवाक्यार्थबोधे पदसमभिव्याहाररूपवाक्यनिष्ठबोधकतारूपवाक्यशक्तिज्ञानस्यापि हेतुत्वकल्पनात् । अर्थोपस्थापकज्ञानविषयशब्दवृत्तिज्ञानकारणत्वस्यैव शक्तित्वात् । युक्तं चैतत् विषयतासम्बन्धेन शाब्दबोधमात्रे वृत्तिज्ञानस्य लाघवेन हेतुत्वसिद्धेः । विवेचितञ्चैतद्भषणे । ननु वाक्यर्थस्यापूर्वत्वात्कथं तत्र शक्तिग्रहइत्याशङ्कयाह अर्थ इति वाक्यस्येति शेषः । वाक्यस्य वाक्यार्थे विशिष्य शक्त्यग्रहणञ्चेत्तर्हि पदेऽपि समम् । पदे एवान्वयांशे शक्तिरिति पक्षेऽपि तद्ग्रहासम्भवस्तुल्यइत्यर्थः । यदि च पदशक्तिः पदार्थशे ज्ञाता अन्वयांशे अज्ञातोपयुज्यतइति कुब्जशक्तिवादः तदा ममापि वाक्यशक्ति ९६

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140