Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown
View full book text
________________
स्फोटनिरूपणम् । तित्वे मानाभावात् पूर्वपूर्ववर्णानुभवजन्यसंस्काराचरमेणार्थधीजनने सहकारिणइति न तन्मात्रोच्चारणादर्थधारिति वर्ण स्फोटवादिनां मतान्तरस्य दूषणायोक्तम् । रामोऽस्तीति वक्तव्ये रांइत्यनन्तरं घटिकोत्तरमकारोच्चारणेऽर्थबोधापत्त्या तादृशानुपूाएव शक्ततावच्छेदकत्वौचित्यादिति दिक् ॥६१॥
सुप्तिङन्त पदमिति परिभाषिकपदस्य वाचकत्वस्वीकर्तृणां मतमाह। घटेनेत्यादिषु न हि प्रकृत्यादिभिदा स्थिता। वस्नसादाविवेहापिशम्प्रमोहोहि दृश्यते॥६२॥
घटेनेत्यादौ घटे इति प्रकृतिर्नेति प्रत्ययः घटइति प्रकृतिरेनेति प्रत्ययइतिविभागस्य " सर्वे सर्वपदादेशाइति " स्वीकारे विशिष्य प्रकृतिप्रत्यययोञ्जनासम्भवान वाचकत्वमित्यर्थः वैयाकरणैर्विभागः सुज्ञेय इत्यतो दृष्टान्तव्याजेनाह वस्नसादाविति । "बहुवचनस्य वस्नसाविति" समुदायस्यादेशविधानानात्र . तद्विभागः सम्भवतीत्यर्थः ॥ ६२॥. . सुप्तिङन्तचयरूपवाक्यस्यापि तदाह । हरेऽवेत्यादि दृष्ट्वा च वाक्यस्फोटं विनिश्चिनु६३ अर्थ विशिष्य सम्बन्धाग्रहणं चेत्समं पदे॥ लक्षणादधुना चेत्तत्पदेऽर्थेप्यस्तुतत्तथा।६४॥
हरेऽव विष्णोऽवेत्यादौ पदयोः “एङः पदान्तादती"त्येकादेशे सात न तदविभागः सुज्ञानः। तथा च प्रत्येकपदाज्ञानेऽपि समुदा

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140