Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 97
________________ स्फोटनिरूणम् । ९७ रज्ञातैवो युज्यतइति वादाभ्युपगमस्तुल्यइति भावः । ननु वृद्धव्यवहारं पश्यतो मनसा पदार्थवद्वाक्यार्थेऽपि तद्ग्रहइति चेत्तुल्यमित्याह लक्षणादिति । लक्ष्यते ततेऽनेनेति लक्षणं मनस्तस्मात्, अपिपदं पदोत्तरं बोध्यम् । पदेऽपि लक्षणातद्ग्रहश्वेत्तर्ह्यस्तु वाक्येऽपीति शेषः । वस्तुतस्तु समुदितार्थे विशिष्टवाक्यस्यैव प्रथमं तद्यहः । आवापोद्वापाभ्यां परं प्रत्येकं तद्ग्रहइति बोध्यम् ।। ६३ ॥ ६४ इयमेव मीमांसकानां वेदान्तैकदेशिनां गतिरित्याह । सर्वत्रैव हि वाक्यार्थो लक्ष्यएवेति ये विदुः । भाट्टास्तेऽपीत्थमेवाद्दुर्लक्षणाया गूहे गतिम् ६५ 1 भाट्टाइति तदनुयायिनां वाचस्पतिकल्पतरुप्रभृतीनामुपलक्षणम् | स्पष्टमन्यत् । ननूक्तपक्षद्वयमनुपपन्नम् उत्पत्तेरभिव्यक्तेर्वैकदा असम्भवेन वर्णसमूहरूपपदज्ञानासम्भवात् । तथा च सुतरां तत्समूहरूपवाक्यज्ञानासम्भवइति चेन्न उत्तरवर्णप्रत्यक्षसमये अव्यवहितोत्तरत्वसम्बन्धेनोपस्थित पूर्वपूर्ववर्णवत्त्वं तथा तदुत्तरप्रत्यक्षकाले उपस्थितविशिष्टतद्वर्णवत्त्वं तस्मिन् सुग्रहमिति तादृशानुपूर्वीघटितपदत्वस्येव वाक्यत्वस्य सुग्रहत्वात् ॥ ६५ ॥ इदानीमखण्डपक्षमाह ॥ पदे न वर्णा विद्यन्ते वर्णेष्ववयवा न च । वाक्यात्पदानामत्यन्तं प्रविवेको न कश्चन६६ पदे पचतीत्यादौ न वर्णाः नातो वर्णसमूहः पदमिति भावः । १३

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140