Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown
View full book text
________________
स्फोटनिरूपणम् ।
९१
थौदनं पक्वाहं भोक्ष्ये इत्यत्र मयेति तृतीयाप्रसङ्गः । न चाख्यातेन कर्तुरभिधानान्न सेति वाच्यम् भोजनक्रियाकर्तृ रभिधानेऽपि पाकक्रियाकर्तुस्तदभावात् अनभिहिते भवतीति पर्युदासाश्रयणात् । अतएव प्रासादे आस्ते इत्यत्र प्रसादनक्रियाधिकरणस्याभिधाने ऽप्यस्तिक्रियाधिकरणस्यानभिधानात् सप्तमीति भाष्ये स्पष्टम् । तस्मात् क्त्वाप्रत्ययस्य कर्तृवाचित्वमावश्यकमिति तन्न सूत्रात्तस्य वाच्यत्वालाभात् । समानकर्तृकयोः क्रिययोः पूर्वकाले क्त्वा इत्येव तदर्थात् अन्यथा समानकर्त्तरीत्येव सूत्रन्यासः स्यात् । तृतीयापादनन्तु आख्यातार्थक्रियायाः प्रधानभूतायाः कर्तुरभिधानात्प्रधानानुरोधेन गुणे कार्यप्रवृत्तेर्न सम्भवति । उक्तञ्च वाक्यपदीये ॥ प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथक् शक्तिर्गुणाश्रया तत्र प्रधानमनुरुध्यते । प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते । यथा गुणे तथा तद्वदनुतापि प्रतीयते इति । किञ्चान्यथा कर्म्मणोऽपि क्वार्थतापत्तिः पक्त्वोदनो मया द्वितीयायाः प्रकारान्तरेणावारणादित्यास्तां
भुज्यतइत्यत्र
विस्तरः ॥ ५८ ॥
इति वैयाकरणभूषणसारे क्वाद्यर्थनिर्णयः ।
सिद्धान्तनिष्कर्षमाह । वाक्यस्फोटोऽतिनिष्कर्षे तिष्ठतीति मतस्थितिः । साधुशब्देऽन्तर्गता हि बोधका नतुतत्स्मृताः ५९

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140