Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown
View full book text
________________
७६
वैयाकरणभूषणसारे ।
तथान्यत्र निपातेऽपि लकारः कर्म्मवाचकः । विशेषणाद्ययोगोऽपि प्रादिवच्चादिके समः ॥४२
1
( अन्यत्र ) साक्षात् क्रियते अलङ्कियते उरीक्रियते शिवइत्यादौ अत्रापि धातोस्तत्तदर्थे कर्म्मणि लकारसिद्ध्यर्थं तत्तदर्थवाचकत्वं वाच्यमित्युपसर्गवद्द्योतकत्वममीषामपीत्यर्थः । यद्यपि कृधातोः सकर्मकत्वमस्त्येव तथाप्येष्वर्थेषु सकर्मकता न स्यात् । अन्यथा वायुर्व्विकुरुते सैन्धवा विकुर्व्वत इत्यत्रापि स्यादिति भावः । अथोपासना साक्षात्कारादिः निपातोर्थोऽस्तु " साक्षात्प्रत्यक्ष तुल्ययोरि " ति कोषस्वरसात् तदनुकूलोन्यापारएव धात्वर्थोऽस्तु स्वस्वयुक्तनिपातान्यतरार्थफलव्यधिकरणव्यापारवत्वं सकर्मकत्वमपि सुवचमिति दृष्टान्तदाष्टान्तिका - वयुक्ताविति नेदं साधकमिति चेन्न । नामार्थधात्वर्थयोर्भेदेन साक्षादन्वयासम्भवेननिपातधात्वर्थयोरन्वयासम्भवात् । अन्यथा तण्डुलः पचतीत्यत्रापि कर्म्मतया तण्डुलानां धात्वर्थेऽन्वयापतेरिति । किञ्च प्रादीनां वाचकत्वे भूयान् प्रकर्षः कीदृशो निश्रय इतिवद्भूयान् म, कीदृशोनिरित्यपि स्यात् । अस्मन्मते प्रादेरनकत्वान्न तदन्वय इत्यतएव द्योतकता तेषां स्यादिति । साधकान्तरमभिप्रेत्याह । विशेषणेति । शोभनः समुच्चयो द्रष्टव्य इतिवच्छोभन श्च द्रष्टव्यइत्यस्यापत्तेस्तुल्यसमाधेयत्वादिति भावः आप च निपातानां वाचकत्वे प्रातिपदिकार्थयोर्विना षष्ठयादिकं भेदेनान्वयासम्भवः | अन्यथा राजा पुरुष इत्यस्य राजसम्बन्धी पुरुषइत्यप्यापतेरित्यभिप्रेत्याह आदीति । धवखदिरयोः

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140