Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 84
________________ ८४ वैयाकरणभूषणसारे । शब्दानां जातिप्रकारकबोधजनकत्वात् । पाचकादिशब्दानां क्रियाप्रकारकबोधजनकत्वे तस्यां प्रत्ययः । संसर्गप्रकारकबोधजनकत्वमिति मते च संसर्गे इति व्यवस्था मूपपादेति भावः । तत्र जातिवाचकानां व्यक्तय एव शक्यतावच्छेदिकाः । तथा च घटत्वमित्यत्र घटवृत्तिरसाधारणो धर्म इत्यादि द्रष्टव्यम् । पक्षान्तरमाह यद्धति। " यद्वा सर्वे भावाः स्वे नार्थेन भवन्ति स तेषां भाव" इति वार्तिकोक्तेः॥ य द्वा शब्दस्तत्सूचनप्रयोजनकोऽपि (भवन्ति) वाचकत्वेन प्रवतन्ते इति भावाः शब्दाः (स्वेन रूपेणअर्थेन ) (भवन्ति) पूर्वतन्ते असः (स तेषां भावः) प्रवृत्तिनिमित्तमित्यर्थः । अयं भावः । अर्थवच्छब्दोऽपि द्रव्ये पूकारः हरिहरनलेक्ष्वाकुयुधिष्ठिरवशिष्ठादिशब्देभ्यस्तत्तद्वाच्यः कश्चिदासीदितिशब्दपूकारकबोधस्य सर्वसिद्धत्वात् । अन्यथा वनौषधिवर्गादेनागरिका न् प्रत्यबोधकत्वापत्तेश्च । एवमेवापूसिद्धार्थकपदष्वनुभवः सर्वसिद्धः नतु घटादिपदेष्विव तत्तज्जात्यादिरूपण । तथा चोभयमवच्छेदकम् । यस्य तथा शक्तिग्रहस्तस्य जात्यादिरूपेणवोपस्थितिः । पदपूकारकः शक्तिग्रहस्तु विशिष्य नापेक्षितः किं तु इदं पदं कचिच्छक्तं साधुपदत्वादित्यादिरूप एवापेक्ष्यते इति विशिष्यागृहीतशक्तिकेभ्यस्तथैव बोधः । तथा च शब्दोऽपि त्वपूत्ययार्थइति पूपश्चितं भूषणे ॥५०॥ " इति वैयाकरणभूषणसारे त्वादिभावप्रत्ययार्थविचारः ।

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140