Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown
View full book text
________________
८२
वैयाकरणभूषणसारे ।
दाहाय्र्यः । दामोदरत्वं कृष्णसर्पत्वमित्यादौ जातिविशेषेण बोधादाह अन्यत्रेति रूढ़ेरभिन्नरूपादव्यभिचरितसम्बन्धेभ्यश्चान्यत्यर्थः रूढ़िरुक्ता । द्वितीयं यथा शुक्लत्वम् अत्र तदस्यास्त्यास्मीनिति मतुपो “गुणवचनेभ्यो मतुपो लुगिष्ट" इति लुप्तत्वात्तद्धितान्तत्वेऽपि घटः शुक्ल इत्यभेदप्रत्ययाद्गुणस्यैव प्रकारत्वेन भानं जायते तृतीये सतोभावः सत्तेति अत्र जातावेव प्रत्यइति दिक् ||४८|| दण्डीत्यादौ प्रकृत्यर्थविशिष्टद्रव्यमात्रवाचकता तद्धितस्येति वदन्तं मीमांसकम्मन्यं प्रत्याह । अत्रार्द्धजरतीयं स्यात् दर्शनान्तरगामिनाम् । सिद्धान्ते तु स्थित पक्षद्वयं त्वादिषु तच्छृणु ।४९
( अ ) भावप्रत्ययविषये । तथा हि दामोदरत्वं घटत्वमित्यादौ भावप्रत्ययस्य सम्बन्धानभिधायकत्वेन मीमांसकानां दण्डित्वमित्यादिष्वपि तदभिधानं न स्यात् । प्रकृतिजन्यबोधे प्रकारः प्रकृत्यर्थसमवेतोहि तदुत्तर्भावप्रत्ययेनाभिधीयते । अन्यथा घटत्वमित्यत्र द्रव्यत्वादेर्द्दण्डित्वमित्यादौ दण्डादेश्च तदुत्तरभावप्रत्ययवाच्यतापत्तेः । नच तन्मते दण्डीत्यादिबोधे सम्बन्धः प्रकारः । यत्तु
यदा स्वसमवेतोऽत्र वाच्योनास्ति गुणोऽपरः । तदा गत्यन्तराभावात्सम्बन्धो वाच्य आश्रितइति ॥ तन्न इन्यादेः सम्बन्धवाचकत्वेनोपपत्तौ गत्यभावाऽभावात् । प्रपञ्चितं चैतदादावेव वैयाकरणभूषणे ननु तवापीदं वैषम्यं कथमित्यत आह सिद्धान्तेत्विति ॥ ४९ ॥

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140