Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown
View full book text
________________
८६ वैयाकरणभूषणसारे । ___ नचैन्द्रं दधीत्यादौ द्रव्यस्य पदान्तराल्लाभात्कुतः पुनः प्रत्ययस्य तत्र शक्तिः कल्प्यतइति वाच्यम् पदान्तराश्रवणेऽपि तत्प्रतीतेः ऐन्द्रं दधीति सामानाधिकरण्याच्च । अन्यथाख्यातस्यापि कर्तृकर्मवाचित्वं न स्यात् । मीमांसकानां पुनः प्रत्ययस्य देवतात्वमेवार्थोऽस्तु । द्रव्यं पदान्तराल्लभ्यतएवेति आख्यानस्य कर्तवद्वाच्यत्वं मास्त्विति कुतोन शक्यते वक्तमिति दिक् । देवतायां देवतात्वरूपेण निरूदेति अनुपपत्तिज्ञानापूर्बकत्वमनादिप्रयोगावच्छिन्नत्वं वा तत्त्वमिति भावः ॥५२॥ ___अनयैव रीत्यान्यत्राप्यवधेयमित्याह । क्रीडायांणस्तदस्यास्तीत्यादावेषैव दिक् स्मृता। वस्तुतो त्तिरेवेति नात्रातीव प्रयत्यते॥५३॥
"तदस्यां प्रहरणमिति क्रीड़ायांण" इत्यत्र प्रहरणविशिष्टा क्रीडा प्रहरणकीड़े क्रीडामात्रं वार्थः । आदिना “ सोऽस्यनिवासः" " सास्मिन् पौर्णमासीत "" तदस्यास्त्यस्मिन् इति मतुप्" इत्यादिकं संगृह्यते । वृत्तिमात्रेऽतिरिक्तशक्तेः “ समर्थः पदविधि " रिति सूत्राल्लाभादुक्तोविचारः शास्त्रान्तरैः सह तद्रीत्यैवोक्तःआरोपितपूकृतिप्रत्ययार्थमादाय वा वस्तुतो विशिटशक्त्यैवार्थोपस्थितिरित्याह वस्तुत इति ॥५३॥ .
इति वैयाकरणभूषणसारे देवताप्रत्ययार्थनिर्णयः ।
वृत्तिपूसङ्गात्तत्राभेदैकत्वसंख्या पूतीयतइति सिद्धान्तं दृष्टान्तेनोपपादयति ।

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140