Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 78
________________ ७८ वैयाकरणभूषणसारे | करणम् इवार्थसदृशस्य करणत्वेऽपि तस्य करणत्वं नानेन बोधयितुं शक्यम् अप्रकृत्यर्थत्वात् । इवशब्दस्य चासत्वार्थकतया तदुत्तरतृतीयाया असम्भवात् । सम्भवे वा श्रवणप्रसङ्गात् । उस्रपदोत्तर तृतीयानन्वयप्रसङ्गाच्चेत्याह । सुपां चेति । सुप श्रवणञ्चेत्यर्थः । चकारादुखपदोत्तरतृतीयानन्वयः समुच्चीयते इत्यादावित्यादिपदात् -" वागर्थाविव सम्पृक्तौ पार्व्वतीपरमेश्वरौ वन्दे " इत्यत्र वागर्थयोर्वन्दिकर्मत्वाभावात्तदुत्तरद्वितीयाया अनन्वयः इवार्थस्य कर्मत्वान्वयबोधासम्भवश्च संगृह्यते । यदि च विशेषणविभक्तिरभेदार्था साधुत्वमात्रार्था वा तदापि इवशब्दस्य वाचकत्वेऽनन्वयएव उस्रशदृशशराणां समानाधिकरपदोपस्थाप्यतया भेदेनान्वयायोगात् । बाधादभेदेनापि न सः नह्यस्त्राभिन्नसदृशाभिन्नः शर इत्यर्थ इष्टव्यः ॥ ४४ ॥ ननु त्वन्मते अब्राह्मणइत्यादौ तत्पुरुषलक्षणाव्याप्त्यापत्तिः पूर्वपदस्यानर्थकत्वेनैवोत्तरपदार्थप्राधान्याभावात् उपसर्गस्यावाभावेन प्रातिपदिकत्वाभावाद्विभक्तिश्च ततो न स्यादित्यत आह । नञ् समासे चापरस्य द्योत्यं प्रत्येव मुख्यता । द्योत्यमेवार्थमादाय जायन्ते नामतः सुपः ॥ ४५ नञ्समासादौ योत्तरपदप्रधानता सा द्योत्यमर्थमादायैव । तमेवार्थमादायार्थवत्त्वात्प्रातिपदिकत्वमित्यर्थः । वस्तुतः अव्ययादाप्सुपइति शापकात्सुबुत्पात्तः । “निपातस्यानर्थकस्येति " वार्त्तिकाद्वा प्रातिपदिकत्वम् । " कृत्तद्धितसमासा " चेत्यनुक्त

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140