Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown
View full book text
________________
निपातार्थनिर्णयः।
७९ समुच्चयार्थकचकारेण निपातानां संग्रहइति वा बोध्यम् । तस्मात् युक्तं निपाताना द्योतकत्वम् । उक्तञ्चाकृत्यधिकरणवार्त्तिके ।
चतुबिधे पदे चात्र द्विविधस्यार्थनिर्णयः । क्रियते संशयोत्पत्तेर्नोपसर्गनिपातयोः ।। तयोराभिधाने हि व्यापारो नैव विद्यते । यदर्थयोतकौ तौ तु वाचकः स विचार्य्यत इति । उपसर्गण धात्वर्थो बलादन्यः प्रतीयते । महाराहारसंहारविहारपरिहारवदिति ।
अत्रोपसर्गपदं निपातोपलक्षणम् । धातुपदं पदान्तरस्येति बोध्यम् ॥४५॥
नन्वन्वयव्यतिरेकाभ्यां निपातानां तदर्थवाचकत्वमेव युक्तम् बोधकतारूपशक्तरबाधात् । किञ्चोक्तरीत्या पचतीत्यादौ धातोरेव कर्वविशिष्टभावनायां लक्षणास्तु तात्पर्य्यग्राहकत्वमात्र तिडादेः स्यादित्यरुचेः पक्षान्तरमाह ।। निपातानां वाचकत्वमन्वयव्यतिरेकयोः। युक्तं वा न तु तद्युक्तं परेषां मतमेव न॥४६॥ ___ एवं च धात्वर्थप्रातिपदिकार्थयोर्भेदेनान्वयबोधो न व्युत्पअति निपातातिरिक्तविषयं, समानाधिकरणप्रातिपदिकार्थयोरभेदान्वय इत्याप तथेत्यगत्या कल्पनीयमिति भावः । न त्विति । नैयायिकोक्तं प्रादिचाद्योवैषम्यमित्यर्थः। यत्तु सर्वेषां निपातानां बाचकत्वेऽर्थवत्सूत्रेणैव तेषां प्रातिपदिकत्वसम्भवात् "निपातस्यानर्थकस्योत"विधिवैयर्थ्यम्। सर्वेषां द्योतकत्वे चा

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140