Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown
View full book text
________________
७७
निपातार्थनिर्णयः। समुच्चयइतिवद्धवस्य च खदिरस्य चेत्येव स्यादिति भावः ।।२।
- ननु प्रातिपदिकार्थयोरभेदान्वयबोधे विभक्तिजन्योपस्थिति हेतुरिति कार्यकारणभावो निपातातिरिक्तविषयएवेति नोक्तदोष इत्याशङ्कयाह । पदार्थः सदृशान्वेति विभागेन कदाचन । निपातेतरसङ्कोचे प्रमाणं किं विभावय॥४३॥ ___ (सदृशा) सदृशेन समानाधिकरणेनेति यावात् । (अन्वेति) अभेदेनेति शेषः । ( विभागेन ) असदृशेन । असमानाधिकरणेनेति यावत् । अयमर्थः समानाधिकरणप्रातिपदिकार्थयोरभेदान्वयव्युत्पत्ति निपातातिरिक्तविषयेति कल्पने मानाभावो गौरवश्च । अस्माकं निपातानां द्योतकत्वादन्वयएव नास्तीति नायं दोषः अतएव घटोनास्तीत्यादौ घटपदं तत्प्रतियोगिके लाक्षणिकीमति नैयायिकाः ॥ ४३ ॥
· अपि च निपातानांवाचकत्वे काव्यादावन्वयोन स्यादिति साधकान्तरमाह । शरैरुपैरिवोदीच्यान् उद्धरिष्यन् रसानिव । इत्यादावन्वयोन स्यात्सुपाञ्च श्रवणं ततः।४४।
अत्रोस्रसदृशैः शरैः रससदृशानुदीच्यानुद्धरिष्यान्नित्यर्थः। अयश्चोस्रादिशब्दानां तत्सदृशपरत्वे इवशब्दस्य द्योतकत्वे सङ्कच्छते । अन्यथा प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वव्युत्प त्तिविरोधः । तथाहि । उनैरिति करणे तृतीया । न चोस्रोऽत्र

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140