Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 74
________________ ७४ वैयाकरणभूषणसारे। हलीति" ज्ञापकात्सर्वनामसंज्ञा नानुपपना । असः शिव इत्यत्र सुलोपवारणायानञ् समासइति हि विशेषणम् । नच तत्र तच्छब्दस्य सर्वनामतास्ति गौणत्वात् । अकोरित्यकज्व्यावृत्या सर्वनान्नोरेव तत्र ग्रहणलाभात्तथाचानञ् समासइति ज्ञापकं सुवचम् ।। अनेकमन्यपदार्थे इत्यादावेकवचन विशेष्यानुरोधात् । “ मुबामन्त्रिते पराङ्गवत्वरे" इत्यतोऽनुवर्तमानमुग्रहणात् विशेष्यमेकवचनान्तमेव । किश्चानेकशब्दात द्विवचनोपादाने बहूनां, बहुवचनोपादाने द्वयोःबहुव्रीहिर्न सिध्येदित्युभयसंग्रहायैकवचनं जात्यभिप्रायमौत्सर्गिकंवा सेव्यतेऽनेकयेत्यत्रापि योषयेति.विशेष्यानुरोधात्मत्येकं सेवनान्वयबोधनाय चैकवचनं न तूत्तरपदार्थप्राधान्यप्रयुक्तम् । अतएव पतन्त्यनेके जलधेरिवोर्मयइत्यादिकमपि सूपपादम् । अत्वं भवसीत्यादौ युष्मदस्मद्भिने लक्षणा नञ् द्योतकः तथा च भिन्न युष्मदर्थेन तिङः सामानाधिकरण्यात्पुरुषव्यवस्था । त्वद्भिन्नाभिन्नायिका भवनक्रियेति शाब्दबोधः । एवं न त्वं पचसि इत्यत्र त्वदभिन्नाश्रयकपाकानुकूलभावनाभावः। घटोनास्तीत्यत्र घटाभिन्नाश्रयकास्तित्वाभाव इति रीत्या बोधः असमस्तनत्रः क्रियायामेवान्वयात् । सचाभावोऽत्यन्ताभावत्वान्यो. न्याभावत्वादिरूपेण शक्यः तत्तद्रूपेण बोधादित्यायन्यत्र विस्तरः॥ ४०॥ इति वैयाकरणभूषणसारे नअर्थनिर्णयः ।

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140