Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown
View full book text
________________
वैयाकरणभूषणसारे ।
जहत्स्वार्थाजहत्स्वार्षपक्षयोरेवैकार्थीभावव्यपेक्षारूपयोः पर्ण्यवसानं लभ्यते तत्राजहत्स्वार्थपक्षे उक्तव्यवस्था नासम्भविनी - त्याशङ्कां मनसिकृत्याह
जहत्स्वार्थाऽजहत्स्वार्थे द्वे वृत्ती ते पुनस्त्रिधा । भेदः संसर्गउभयं वेति वाच्यव्यवस्थितेः॥३०॥
जहति पदानि स्वार्थ यस्यां सा जहत्स्वार्था पदे वर्णवद्त्तौ पदानामानर्थक्यमित्यर्थः अयं भावः, समासशक्त्यैव राजा - शिष्टपुरुषभानसम्भवे न राजपुरुषपदयोरपि पुनस्तद्बोधकत्वं कल्प्यम् वृषभयावकादिपदेषु वृषादिपदानामिव अन्यथा राजपदेन विग्रहवाक्यsa राशः स्वातत्र्येणोपस्थितिसत्त्वादृद्धस्य राज्ञः पुरुष इत्यत्रेव ऋद्धस्य राजपुरुषइत्यस्याप्यापचेरिति । अजहदिति न जहति पदानि स्वार्थयस्यां सा अजहत्स्वार्था अयमभिप्रायः राजपुरुषादिसमासादौ नाविरिक्ता शक्तिः कल्पकाभावात् क्लृप्तराजादिपदादेवार्थोपस्थितिसम्भवे तत्कल्पनस्य गौरवपराहतत्वाच्च कृप्तशक्तित्यागोऽप्यप्रामाणिकः कस्पेचत तथाचाकाङ्क्षादिवशात् कृतशक्त्यैव विशिष्टार्थबोध: अयमेव व्यपेक्षापक्षो मतान्तरत्वेन भाष्यकारैरुक्तः नचात्र मते समासे ऋद्धस्येति विशेषणान्वयापत्तिः “ सविशेषणानां वृत्तिर्न वृत्तस्य वा विशेषणयोगो नेति " वार्त्तिकात् तथाचैतन्मतवादिनां पूर्वोत्तरपदार्थ सत्वात्पूर्वपदार्थप्रधानइत्यादिव्यवस्थासूपपादोति भावः । प्रसङ्गाद्वृत्तिभेदमपि निरूपयति । ते पुना दे
५६

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140