Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown
View full book text
________________
समासार्थनिर्णयः। अपि वृत्ती त्रिविधे वाच्यत्रविध्यात् । वाच्यमेवाह । भेदइत्यादि । भेदः अन्योन्याभावः तथा च राजपुरुषइत्यादावराजकीयभिन्नइति बोधः । अस्यावाच्यत्वे च राजपुरुषः मुन्दरइतिवदाजपुरुषोदेवदत्तस्य चेत्यपि स्यात् । वाच्यत्वे सद्विरोधावं प्रयोग इति भावः। राजसम्बन्धवानित्येव शाब्दमानं भेदस्तूचरकालमुपातिष्ठतइत्याशयेनाह संसर्गइति । विनिगमनाविरहादनास्वामिकेऽपि राजपुरुषइत्यादिप्रयोगापत्तिश्च मनसिकत्योभयं वाच्यमित्याह । उभयं वति । तथा चाराजकीयभिबोराजसम्बन्धवांश्चायमिति बोधः ॥ ३० ॥ _ व्यपेक्षावादस्यैवंयुक्ति भाष्यविरुद्धत्वात्तन्मूलकः पूर्वपदार्थप्रधान इत्यायुत्सर्गोऽप्ययुक्तः। किन्तु रेखागवयन्यायेनोत्सर्गोऽपि परम्परयैव बोधकइत्याशयेन समाधत्ते । समासे खलु भिन्नैव शक्तिः पङ्कजशब्दवत् । बहूनां वृत्तिधर्माणां वचनैरेव साधने । स्यान्महद्गौरवं तस्मादेकार्थीभाव आश्रितः३१ ___ सभासइति वृत्तिमात्रेपलक्षणम् । “समर्थः पदविधिरि " त्यत्र पदमुद्दिश्य यो विधियते समासादिः स समर्थः विग्रहवाक्याभिधानशक्तः सन् साधुरिति सूत्राथस्य भाष्याल्लाभात् । पदोद्देश्यकविधित्वञ्च कृत्तद्धितसमासैकशेषसनाचन्तधातुरूपासु पश्चस्वाप वृत्तिष्वस्त्येव । विशिष्टशक्त्यस्वीकर्तृणां मते दुषणं शक्तिसाधकमेवेत्याशयेनाह पङ्कजशब्दवदिति। पङ्कजान

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140