Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 61
________________ समासार्थनिर्णयः। ६१ बहुव्रीयसम्भवापत्तेः "अनेकमन्यपदार्थ" इत्यनेकसुबन्ताना. मन्यपदार्थप्रतिपादकत्वेन तद्विधानात् । किन एवंसति घटादिपदेष्वपि चरमवर्ण एव वाचकताकल्पना स्यात् पूर्वपूर्ववर्णानां तात्पर्यग्राहकत्वेनोपयोगसम्भवात् । एवं सति चरमवर्णमात्रश्रवणेऽर्थबोधापत्तिरिति चेदत्राप्युदकपदमात्रश्रवणादर्थप्रत्ययापत्तिस्तुल्येत्यन्यत्र विस्तरः। एवञ्च अषष्ठयर्थबहुब्रीहौ ( व्युत्पत्यन्तरकल्पना ) उक्तयुक्तः अगत्या शक्त्यन्तरकल्पनेत्यर्थः ( कृप्तत्यागः) इत्यस्य क्लप्तशक्त्योपपत्तिरिति व्युत्पत्तित्यागश्च (तवास्ति) (तत्किम् ) सर्वत्र समासे शक्तिं न कल्पयेरिति वाक्यार्थः । यत्तुव्यपेक्षावादिना नैयायिकमीमांसकादयः न समासे शक्तिः राजपुरुषइत्यादौ राजपदादेः सम्बन्धिलक्षणयैव राजसम्बन्ध्यभिन्नः पुरुषइति बोधोपपत्तेः । अतएव राज्ञः पदार्थकदेशतया न तत्र शोभनस्येत्यादिविशेषणान्वयः। नवा घनश्यामोनिष्कौशाम्बिर्गोरथइत्यादौइवादिप्रयोगापत्तिः उक्तार्थतया इवक्रान्तादिपदप्रयोगासम्भवात् न वा"विभाषति"सूत्रावश्यकत्वम् लक्षणया राजसम्बन्ध्यभिन्नः पुरुषइति बुबोधयिषायां समासस्य, राजसम्बन्धवानिति बुबोधयिणायां विग्रहस्येत्यादिप्रयोगनियमसम्भवात् नापि पङ्कजपदप्रतिवन्दी शक्तिसाधिका तत्रावयवशक्तिमजानतोपि बोधात् नच शक्त्यग्रहे लक्षणयातेभ्योविशिष्टार्थप्रत्ययःसम्भवतिअतएवराजा दिपदशक्त्यग्रहे राजपुरुषश्चित्रगुरित्यादौ न बोधः नच चित्रगुरित्यादौ लक्षणासम्भवेऽप्यषष्ठपर्धवहुव्रीही लक्षणाया असम्भवे बहुव्युत्पत्तिभञ्जनापतेरिति वाच्यम् प्राप्तोदकइत्यादावुदक

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140