Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 63
________________ समासार्थनिर्णयः । स्वार्थबोधजनकत्वव्युत्पत्तेः विशिष्टोत्तरमेव प्रत्ययोत्पत्तेर्विशिष्टस्यैव प्रकृतित्वात् यत्तु समहितपदार्थगत स्वार्थबोधकत्वव्युत्पत्तिरेव कल्प्यत इति तन्न उपकुभ्भं अर्द्धपिप्पलीत्यादौ पूर्वपदार्थे विभक्त्यर्थान्वयेन व्यभिचारात् न च तत्रापि समिधानमेव आनुशासनिकसन्निधेर्विवक्षितत्वात् तथा च यत्पदोतरं यानुशिष्टा सा तदर्थगतं स्वार्थ बोधयति समासे च समस्यमानपदोत्तरमेवानुशासनमिति वाच्यम् । अर्थवत्सूत्रेण वि - शिष्टस्यैव विभक्त्यनुशासनात् । अथ प्रकृतित्वाश्रये विभक्त्यन्वयइत्येव कल्प्यतइति चेत्तर्हि पङ्कजमानय दण्डिनं पश्य शूलिनं पूजयेत्यादौ पङ्कजदण्डशूलेष्वानयनदर्शनपूजनादेरन्वयप्रसङ्गात् अघटमानयेत्यत्र घटेप्यानयनान्वयापत्तेश्व । नच दण्डादीनां विशेषणतया न तत्रानयनाद्यन्वयः । पाकानीलः धर्म्मासुखी इत्यादौ पाकधर्मादिहेतुताया रूपसुखादावनन्वयप्रसङ्गात् यच्च प्रकृत्यर्थत्वं तज्जन्यज्ञानविषयत्वमात्रं तच्चात्राविरुद्धमिति तन्न घटं पश्येत्यत्र घटपदात्समवायेनोपस्थिताकाशवारणाय वृत्त्या प्रकृत्यर्थत्वस्यावश्यकत्वात् । अथ प्रत्ययप्राग्वर्त्तिपदज न्योपस्थितिविशेऽयत्वं प्रकृत्यर्थत्वमिति चेन्न गामानयति कृष्णो दण्डेनेत्यत्र कृष्णे तृतीयार्थान्वयप्रसङ्गात् । अथ समस्यमानप दार्थबोधकत्वं समासोत्तरविभक्तेः कल्प्यतइति चेन्न अकृतकल्प नां कृप्त व्युत्पत्तित्यागञ्चापेक्ष्य समुदायशक्तिकल्पनस्यैव युक्त त्वादिति दिक् । अपि च समासे विशिष्टशक्त्यस्वीकारे राज पुरुषचित्रगुः नीलोत्पलमित्यादौ सर्व्वत्रानन्वयप्रसङ्गः । राज ६३

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140