Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 66
________________ वैयाकरणभूषणसारे । पर्यवस्यंश्वासौ शाब्दबोधश्च तस्मादविदूरश्वासौ प्राक्क्षfe | तदानीन्तनलाघवमादायाधिकरणाविरोधइत्यर्थः । अयं भावः निषादस्थपतिपदं समासशक्तिपक्षे निषादरूपे निषादानाञ्च स्थपतौ निषादस्वामिके पुरुषान्तरे चेत्येवं सर्व्वत्र शक्तत्वान्नानार्थकम् । तथा चं "नानार्थे तात्पर्य्याद्विशेषावगति” रिति न्यायेन तत्कल्पनायां पदद्वये पूर्वोपस्थितार्थे एवोपस्थित्यादिलाघवात् तत्कल्पनमिति । परेषामपि सीत तात्पर्ये यष्ठीः प्रवेशयेतिवल्लक्षणायादुवारत्वात्तात्पय्र्यमेव कल्पयकोटौ अवशिष्यतइति दिक् ||३५|| इति वैयाकरणभूषणसारे समासशक्तिनिरूपणम् । ६६ शक्तिप्रसङ्गादस्याः स्वरूपमाह । इन्द्रियाणां स्वविषयेष्वनादिर्योग्यता यथा । अनादिरर्थैः शब्दानां संबन्धो योग्यता तथा ३६ इन्द्रियाणां चक्षुरादीनां स्वविषये चाक्षुषादिषु घटादिषु यथानादिर्योग्यता तदीयचाक्षुषादिकारणता तथा शब्दानामपि अथैः सह तद्बोधकारण योग्यता सैव शक्तिरित्यर्थः । ननु न बोधकारणत्वमनादिभूतं शक्तिः आधुनिकदेवदत्तादिपदे तदभावात् अन्यथा पित्रादिसङ्केताज्ञानेऽप्यन्वयबोधप्रसङ्गः लाक्षणिकातिव्याप्तेश्चेति सङ्केतज्ञानमपि हेतुर्वाच्यः । तथाचाव श्यकत्वात्स एव शक्तिरस्तु स चाधुनिके पित्रादेर्गवादौ चेश्वरस्योत चेत् अत्रोच्यते सङ्केतोन स्वरूपेण हेतुः अगृहीतशक्तिकाद

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140