Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown
View full book text
________________
६८ वैयाकरणभूषणसारे । च्छेदकं तत्तदुपस्थितित्वश्च कारणतावच्छेदकम् अनन्तकार्यकारणभावप्रसङ्गात् । किञ्च पदार्थोपस्थितिं प्रत्यपि शक्तिज्ञानत्वेन लक्षणाज्ञानत्वेन च हेतुतेतिव्यभिचारो गौरवश्च प्राग्वदेव द्रष्टव्यम्। नचेदं पदमेतदर्थबोधकामिति शक्तिज्ञानकार्यकारणभावकल्पनेऽपि तत्तदर्थभेदेनानेककार्यकारणभावकल्पने गौरवम् तवापि समानम् परस्परव्यभिचारवारणायाव्यवहितोत्तरत्वघटितत्वे च सुतरामिति वाच्यम्, शक्तिभ्रमानुरोधेन तत्तत्पदतत्तदथेभेदेन कार्यकारणभावानन्त्यस्य तवापि साम्यात् । लक्षणाकार्यकारणभावकल्पनागौरवं परं तवातिरिच्यते । अथ वृत्तिजन्योपस्थितित्वेनैव शाब्दबोधहेतुता बृत्तिज्ञानत्वेन च पदार्थोपस्थितिकारणतेत्वेवं मया वाच्यमिति चेन्न शक्तिलक्षणान्यतरत्वस्य शाब्दबोधहेतुपदार्थोपस्थित्यनुकूलपदपदार्थसम्बन्धत्वस्य वा वृत्तित्वस्य कारणतावच्छेदकत्वात् शक्तित्वमपेक्ष्य गौरवात् शाब्दबोधहेतुतावच्छेकपदार्थोपस्थिातहेतुवृत्तेरज्ञाने तद्घटितकार्यकारणभावग्रहस्यासम्भवात् । अथ ममापि शक्तिज्ञानत्वेनैव हेतुता शक्यसम्बन्धरूपल क्षणायां शक्तेरपि प्रवेशादिति चेन्न । शक्तिज्ञानपदार्थोपस्थित्यो कार्यकारणभावे समानविषयत्वस्यावश्यकत्वात्-अन्यथा गङ्गातीरयोः सम्बन्धाग्रहवतो गङ्गापदशक्तिं जानतोपि गङ्गायां घोष इति वाक्यात्तीरबोधप्रसङ्गः शक्तिज्ञानस्य हेतोः सत्त्वात् । अपिच घटमानयेति वाक्यं हस्तिनश्च स्मरतो घटपदादिभ्यो घटादेः गजाद्धस्तिपकस्य च समूहालम्बनस्मरणवतो घटानयनवद्धस्तिपकस्यापि शाब्दबोधापत्तिः समूहालम्बनरूपायां पदार्थोपस्थितौ पदजन्यत्वसत्त्वात् । तथा च विष

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140