Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 70
________________ वैयाकरणभूषणसारे । नन्वपभ्रंशानां साक्षादवाचकत्वे किं मानम् शक्तिकल्पकव्यवहारादेस्तुल्यत्वादिति चेत्तत्तदेशभेदभिन्नेषु तेषु तेषु शक्तिकल्पने गौरवात् । नच पर्यायतुल्यता शङ्कया तेषां सर्व्वदेशेष्वेकत्वाद्विनिगमनाविरहेण सर्व्वत्र शक्तिल्पना न हि अपभ्रंशे तथा, अन्यथा भाषाणां पर्यायतया गणनापत्तेः । एवञ्च शक्तत्वमेवास्तु साधुत्वमिति नैयायिकमीमांसकादिनां मतेनैव द्रष्टव्यम् । इदानीं स्वमतमाह | वाचकत्वाविशेषेवेति । अयं भावः । अपभ्रंशानामशक्तत्वे ततोबोधएव न स्यात् । नच साधुस्मरणात्ततो बोधः तानविदुषां पामराणामपि बोधात् तेषां साधोरबोधाच्च । नच शक्तिभ्रमात्तेभ्योबोधः बोधकत्वस्याबाधेन तद्ग्रहस्याभ्रमत्वात् । ईश्वरेच्छा शक्तिरिति मतेऽपि सन्मात्रविषयिण्यास्तस्या बाधाभावात् । शक्तेः पदपदार्थविशेषघटिताया भ्रमासम्भवाच्चेति । उक्तञ्च वाक्यपदीये । ७० पारम्पर्यादपभ्रंशा विगुणेष्वभिधातृषु । प्रसिद्धिमागता येन तेषां साधुरवाचकः । देवी वाग्व्यवकीर्णेयमशक्तै रभिधातृभिः । अनित्यदर्शिनान्त्वास्मिन्वादे बुद्धिविपर्ययइति । (अवाचकः) अबोधकः (बुद्धिविपर्ययः) एत एव वाचका नान्ये इति विपर्यय इत्यर्थः । किञ्च विनिगमनाविरहाद्भाषणयामपि शक्तिः । नच तासां नानात्वं दोषः । संस्कृतवन्महाराष्ट्रभाषायाः सर्व्वत्रैकत्वेन प्रत्येकं विनिगमनाविरहतादवस्थ्यात् । किञ्चानुपूर्वी पदेऽवच्छेदिका सा च पर्यायेष्विव भाषाया

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140