Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 60
________________ ६० वैयाकरणभूषणसारे । वधिः बहुपाककर्त्रधिकरणमिति बोधाभ्युपगमात् अतिरिक्तशतिपक्षे च घटत्वविशिष्टे घटपदस्येवोदककर्तृकप्राप्तिकर्मत्वावशिष्टे प्राप्तोदकइत्यादिसमुदायशक्त्यैव निब्र्वाहइति भावः॥ ३२ ॥ साधकान्तरमाह । अषष्ठ्यर्थबहुव्रीहौ व्युत्पत्त्यन्तरकल्पना । क्लृप्तत्यागश्चास्ति तव तत्किं शक्तिं न कल्पयेः ३३ अयं भावः । चित्रगुरित्यादिषु चित्रगवीनां स्वाम्यादिप्र सीतिर्न विना शक्तिमुपपद्यते । नच तत्र लक्षणा साहि न चित्रपदे चित्रस्वामी गौरिति वाघापत्तेः । नापि गोपदे गोस्वा मी चित्र इत्यन्वयबोधापत्तेः । चित्रादिमात्रस्य लक्ष्यैकदेशत्वेन तत्र गवादेरन्वयायोगात् । नच चित्राभिन्ना गौरिति शक्त्युपस्थाप्ययोरन्वयबोधोत्तरं तादृशगोस्वामी गोपदेन लक्ष्यते इति वाच्यम् । गोपदस्य चित्रपदस्य वा विनिगमनाविरहेण लक्षकत्वासम्भवात् । नच गोपदे साक्षात् सम्बन्धएव विनिगमकइति वाच्यम् । एवमपि प्राप्तोदकः कृतविश्व इत्याद्यषष्ठयर्थबहु विनिगमकाप्राप्तेः । यौगिकानां कत्राद्यर्थकतया साक्षात्सम्बन्धाविशेषात् । नच पदद्रये लक्षणेति नैयायिकोक्तं युक्तम् बोधावृत्तिप्रसङ्गात् । नच परस्परं तात्पर्य्यग्राहकत्वादेकस्यैवैकदा लक्षणा न द्वयोरिति न बोधावृत्ति रिति वाच्यम् । एवमपि विनिगमनाविरहतादवस्थ्यन लक्षणाया असम्भवात् । नच चरमपदे एव सा प्रत्ययार्थान्वयानुरोधात् प्रत्ययानां सन्निहिनपदार्थगत स्वार्थबोधकत्वन्युत्पतेरिति वाच्यम् । एवं हि

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140