Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown
View full book text
________________
५८
वैयाकरणभूषणसारे ।
कर्तुरपि योगादेवोपस्थितौ तत्रापि समुदायशक्तिर्न सिध्येत् । नच पद्मत्वरूपेणोपस्थितये सा कल्प्यतइति वाच्यम् चित्रग्वादिपदेऽपि स्वामित्वेनोपस्थितये तत्कल्पनावश्यकत्वात् । लक्षणयैव तथोपस्थितिरिति चेत पङ्कजपदेऽपि सा सुवचा । एवं रथकारपदेऽपि तथा च " वर्षासु रथकारोऽग्निमादधीते " त्यत्रापि बिना लक्षणां कृप्तयोगेन ब्राह्मणादिविषयतयैवोपपत्तौ तत्कविया ल्पनां कृत्वा जातिविशेषस्याधिकारित्वं प्रकल्प्यापूर्व्वकल्पनमयुक्तं स्यादिति भावः साधकान्तरमाह वहूनामिति वृत्तेर्धम विशेषणलिङ्गसंख्याद्ययोगादयस्तेषां वचनैरेव साधने गौरवमित्यर्थः अयं भावः विशिष्टशक्त्यस्वीकारे राज्ञः पुरुषइत्यत्रेव राजपुरुषइत्यत्रापि स्याद्विशेषणाद्यन्वयः राजपदेन स्वतन्त्रोपस्थितिसत्त्वात् विभाषावचनञ्च समासनियमवारणाय कामिति ननु " सविशेषणानामिति" वचनान्न विशेषणाद्यन्वयः विभाषावचनञ्च कृतमेवेत्याशङ्कां समाधत्ते वचनैरेवेोति न्यायसिद्धमेव सूत्रम् व्यपेक्षाविवक्षायां वाक्यस्य एकार्थीभावे समासस्योत स्वभावतएव प्रयोगनियमसम्भवात् सविशेषणेत्यपि विशिष्टशक्तौ राज्ञः पदार्थकदेशतयाऽन्वयासम्भवात् न्यायसिद्धमिति भावः अतएव व्यपेक्षापक्षमुद्भाव्य अथैतस्मिन् व्यपेक्षायां सामर्थ्य योऽसावेकार्थीभावकृतो विशेषः स वक्तव्यइति भाष्यकारेण दूषणमप्युक्तम् ॥ ३१ ॥
तथा धवखदिरौ, निष्कौशाम्बिगरथो घृतघटो गुड़धानाः केशचूड़ : सुवर्णालङ्कारो द्विदशाः सप्तपर्ण इत्यादावितरेतरयो

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140