Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown
View full book text
________________
समासार्थनिर्णयः। गादिकान्तयुक्तपूर्णमिश्रसङ्घातविकारसुच्प्रत्ययलोपो, वीप्सापर्थोवाचनिको वाच्यइत्यतिगौरवं स्यादिति दूषणान्तरमाह चकारादिनिषेधोऽथ बहुव्युत्पत्तिभञ्जनम् । कर्तव्यं तेन्यायसिद्ध त्वस्माकं तदिति स्थितिः। आदिना घनश्यामः हंसगमनइत्यादाविवादीनां पूर्वोक्तानाच संग्रहः दूषणान्तरमाह बहुव्युत्पत्तिभञ्जनमिति अयमाशयः चित्रगुरित्यत्र स्वाम्यादिप्रतीतिरनुभवसिद्धा नच तत्र लक्षणा प्राप्तोदकोग्राम इत्यादौ तदसम्भवात् प्राप्तिकर्षभिन्नमुदकमित्यादिवोधोत्तरं तत्सम्बन्धिग्रामलक्षणायामप्युदकर्तृकमाप्तिकामग्रामइत्यर्थालाभात् प्राप्तति क्तप्रत्ययस्यैव कर्थकस्य कर्मणिलक्षणति चेत्तर्हि समानाधिकरणमातिपदिकार्थयोरभेदान्वयव्युत्पत्तेरुदकाभिमप्राप्तिकम्मति स्यात् अन्यथा समानाधिकरणप्रातिपदिकार्थयोरभेदान्वयव्युत्पत्तिभङ्गापत्तेः प्राप्तेर्धात्वर्थतया कर्तृतासम्बन्धेन भेदेनोदकस्य तत्रान्वयासम्भवाच अन्यथा देवदत्तः पच्यतइत्यत्र कर्तृतासम्बन्धेन देवदत्तस्यान्वयसम्भवेनानन्वयानापत्तेः अथोदकाभिन्नकर्तृका प्राप्तिरिति वोधोत्तरं तत्सम्बन्धिग्रामो लक्ष्यतइति चेन प्राप्तेर्धात्वर्थतया तार्थकतीरें प्रति विशष्यताया असंभवात् प्रकृतिप्रत्यययोः प्रत्ययार्थप्राधान्यमिति व्युत्पत्तेः प्राप्तपदे प्राप्तर्विशेष्यत्वेतस्याएव नामार्थत्वेनोदकेन सममभेदान्वयापत्तेश्च एवमूढ़रथः उपहृतपशुः उद्धतौदना बहुपाचिकेत्यादावाप दष्टव्यम् अत्र हि रथकर्मकवहनकर्ता, . पशुकर्मकोपहरणोद्देश्यः, ओदनकर्मकोद्धरणा

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140