Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown
View full book text
________________
समासार्थनिर्णयः। ५५ पायोवादः भूतपूर्वः हम्भूः आयतस्तूः बागाविवेत्याद्यसङ्ग्रहात् तथा पूर्वपदार्थप्रधानोऽव्ययीभावः उत्तरपदार्थप्रधानस्तत्पुरुषः उभयपदार्थप्रधानोद्वन्द्रः अन्यपदार्थप्रधानो बहुव्रीहिरित्यादिलक्षणमापि प्रायिकम् उन्मत्तगङ्गं सूपप्रति अर्द्धपिप्पली द्वित्राः शशकुशपलाशमित्यादौ परस्परव्यभिचारात् तथाहिउन्मत्तगङ्गमित्यव्ययीभावे पूर्वपदार्थप्राधान्याभावादव्याप्तिः अन्यपदार्थप्राधान्याबहुव्रीहिलक्षणातिव्याप्तिश्च “अन्यपदार्थे च संशायामिति" समासात् सूपप्रनीत्यव्ययीभाव उत्तरपदार्थप्राधान्यात्तत्पुरुषलक्षणातिव्याप्तिरव्ययीभावाव्याप्तिश्च "सुपातिना मात्रार्थे " इति समासात् अपिप्पलीत तत्पुरुषे पूर्वपदार्थप्राधान्यसत्त्वादव्ययीभावातिव्याप्तिस्तत्पुरुषाव्याप्तिश्च । “अर्द्ध नपुंसकमिति" समासात् । एवं पूर्वकाय इत्यादौ द्रष्टव्यम् । द्वित्राइति बहुव्रीहाबुभयपदार्थप्राधान्याद् द्वन्द्वातिव्याप्तिः वहुव्रीह्यव्याप्तिश्च । शशकुशपलाशमित्यादिदन्छे समाहारान्यपदार्थप्राधान्याबहुव्रीह्यतिव्याप्ति ईन्द्राव्याप्तिश्च स्यादिति भावः । सिद्धान्ते त्वब्ययीभावाधिकारपठितत्वमव्ययीभावत्वामित्यादि द्रष्टव्यम् । असम्भकाचैषामि- । त्याह । भौतपूर्व्यादित्यादि । रेखागवयादि निष्ठलागृलादास्तवपश्वलक्षणस्ववदेतेषामपि न समासलक्षणत्वम् । बोधकता तु तदेव स्यादिति भावः ॥ २९ ॥ ___ ननु पूर्वपदार्थप्राधान्यादि समासे सुवचम् तथाहि "समर्थः पदविधिरित" सूत्रे भाष्यकारैरनेकधोक्तेष्वपि पक्षेषु

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140