Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown
View full book text
________________
सुवर्थनिर्णयः।
४५ उभावष्य ध्रुवों मेषौ यद्यप्युभयकमजे । विभागे प्रविभके तु क्रिये तत्र व्यवस्थिते । मेपान्तरक्रियापेक्षमवधित्वं पृथक् पृथक् ।
मेषयोः स्वक्रियापेक्षं कर्तृत्वश्च पृथक् पृथक् इति । अस्यार्थः (अपाये) विश्लेषहेतुक्रियायाम् (उदासीनम्) अनाश्रयः । (अतदावेशात्) तक्रियानाश्रयत्वात् । एवञ्च विश्लेषहेतुक्रियानाश्रयत्वे सति विश्लेषाश्रयत्वं फलितम् । वृक्षात्पर्ण पततीत्यत्र पर्णस्य तद्वारणाय सत्यन्तम् । धावतोऽश्वात्पततीत्यत्राश्वस्य क्रियाश्रयत्वाद्विश्लेषहत्विति । कुड्यात्पततोऽश्वात्पततीत्यत्रावस्य विश्लेषजनकक्रियाश्रयत्वेऽपि तन्न विरुद्धमित्याह यस्मादश्वादिति । तद्विश्लेषहेतुक्रियानाश्रयत्वे सताति विशेषणीयमिति भावः । एवमश्वनिष्ठक्रियानाश्रयत्वात्कुड्यादेराप ध्रवत्वमित्याह तस्यापीति। उभयकर्मजविभागस्थले विभागस्यैक्यात्तविश्लेषजनकक्रियानाश्रयत्वाभावात्परस्परान्मेषावपसरतइति न स्यादित्याशङ्कय समाधत्ते उभावपीति । मेषान्तरेति । यथा निश्चलमेषादपसरहितीयमेषस्थले निश्चलमेषस्यापरमेषक्रियामादाय ध्रुवत्वम् तथात्रापि विभागैक्येऽपि क्रियाभेदादेकक्रियामादाय परस्य ध्रुवत्वमिति । तथा च विश्लेषाश्रयत्वे सति तजनकतक्रियानाश्रयत्वं ततक्रियायामपादानत्वं वाच्यम् । क्रिया चात्र धात्वर्थो नतु स्पन्दः । तेन वृक्षकर्मजविभागवति वस्त्रे वृक्षावस्त्रं पततीति सङ्गच्छते । वस्तुतो नैतावत्पश्चम्या वाच्यम् । किन्तु अवधेलक्षणमात्रं द्वितीयार्थोक्त

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140