Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown
View full book text
________________
४८ वैयाकरणभूषणसारे । त्म्येनावच्छेदकम् करणतृतीयायाश्च व्यापारोऽपि पञ्चम्याविभागमात्रं, चतुर्थाउद्देश्यत्वमात्रम् अतएवाकृत्यधिकरणमाप न विरुध्यतइत्यभिप्रेत्याह शक्तिरेव वेति षण्णामपीति शेषः "शेषे षष्ठी" ति सूत्रात्तस्याः सम्बन्धमात्रं वाच्यम् कारकषष्ठयास्तु शक्तिरेवेन्यूह्यम् “सप्तमीपञ्चम्यौ कारकमध्य" इतिसूने शक्तिः कारकमिति पक्षस्य भाष्ये दर्शनात् एवश्च देवदत्तस्य गौर्ब्राह्मणाय गेहाद्गायां हस्तेन मया दीयतइत्यत्र देवदत्तसम्बन्धिनी या गौस्तदभिनाश्रयकत्यागानुकूलो ब्राह्मणोद्देश्यको गेहनिष्ठविभागजनको गङ्गाधिकरणको हस्तकरणको मनिष्ठो व्यापारइति बोधः यथायथम् उक्तप्रकारेण। अत्र मानमुपदर्शयन् घटं जानातीत्यादौ द्वितीयाया विषयतायां लक्षणेति बहाकुलं वदतो नैयायिकादीन् प्रत्याह सुपां कम्म॑तीति अयं भावः।
मुपां कादयोप्यर्थाः संख्या चैव तथा तिङाम् प्रसिद्धोनियमस्ता नियमः प्रकृतेषु चेति
वार्तिकतद्भाष्याभ्यां कादेर्वाच्यतायास्तनियमस्य च लाभः तथा हि " स्वौजसमौट्" कर्मणि द्वितीया" "देयकयोर्दिवचनैकवचने" इत्यादेः, "लः कर्मणि च" "तिप् तस् झि" तान्येकवचनद्विवचने" त्यादेरेकवाक्यतया कादेस्तत्संख्यायाश्च वाच्यता लभ्यते । तथा तनियमश्च द्विविधो लभ्यते द्वितीया कर्मण्येव, तृतीया करणे एवे, त्येवमादिरर्थनियमः कर्मणि द्वितीयैव, करणे तृतीय, वेत्येवं शब्दनि

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140