Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 47
________________ सुवर्थनिर्णयः। ४७ र्थकादुद्देश्यः इदमेव शेषित्वम् तदुद्देश्यकेच्छाविषयत्वञ्च शेषित्वमित्येव पूर्वतन्त्रे निरूपितम् । अतएव"प्रासनवन्मैत्रावरुणाय दण्डप्रदान"मित्यधिकरणे क्रीते सोमे मैत्रावरुणाय दण्डं प्रयच्छतीति विहितं दण्डदानं न प्रतिपत्तिः किन्तु चतुर्थीश्रुत्यार्थकम्र्मेति तत्र निर्णीतम् ।रजकाय वस्त्रं ददातीत्यपि खण्डिको पाध्यायः शिष्याय चपेयं ददातीति भाष्योदाहरणादिष्टमेवः । वृत्तिकारास्तु "सम्यक् प्रदीयते यस्मै तत्सम्प्रदानम्" इत्यन्वर्थसंज्ञया खखत्वनिवृत्तिपर्यन्तमर्थ वर्णयन्तो रजकस्य बस्त्रमित्ये वाहुः । इदञ्च - अनिराकरणात्कर्तु स्त्यागाङ्गकर्मणेप्सितम् । प्रेरणानुमतिभ्याश्च लभते सम्प्रदानतामिति ॥ वाक्यपदीयात्रिविधम् । सूर्यायार्घ ददातीत्याद्य, नात्र मूर्यः प्रार्थयते नानुमन्यते न निराकरोतिं । प्रेरकम् , विप्राय गां ददाति । अनुमन्तृ, उपाध्यायाय गां ददाति । अत्र सर्वत्र प्रकृतिप्रत्ययार्थयोरभेदः संसर्गः विभक्तीनां धम्मिवाचकत्वात् धर्मवाचकत्वे "कर्मणि द्वितीयेति" सूत्रस्वरसभङ्गापत्तेः कर्मार्थककृत्तद्धितादौ तथादर्शनाच्च द्वितीयार्थकबहुव्रीही प्राप्तोदकइत्यादौ धम्मिवाचकतालाभाच्च । सुपा कर्मादयोऽप्यर्थाः संख्या चैव तथा तिममिति । भाष्याच्चेति दिक् आश्रयस्यापि प्रकृत्यैव लाभान विभक्तिवाच्यता किन्त्वाश्रयत्वमात्रं वाच्यम् तदेव च तादा

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140