Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 50
________________ ५० वैयाकरणभूषणसारे । नचैवं घटत्वमपि वाच्यं स्याच्छक्यतावच्छेदकत्वात्तथा च 1 नागृहीतविशेषणन्यायात्तदेव वाच्यमस्त्विति शंक्यम् अकारणत्वेऽपि कारणतावच्छेदकत्ववदलक्ष्यत्वेऽपि लक्ष्यतावच्छेदकत्ववत्तथापि सम्भवात् । उक्तश्च I आनन्त्येsपिं हि भावानामेकं कृत्वोपलक्षणम् । शब्दः सुकरसम्बन्धो नच व्यभिचरिष्यतीति । वस्तुतस्तु “न ह्याकृतिपदार्थस्य द्रव्यं नं पदार्थ " इति भाष्याद्विशिष्टं वाच्यम् । एकमित्यस्य चायमभिप्रायः शक्तिशाने विषयतयावच्छेदिका जातिरेकैव । तथा च घटत्वविशिष्टबोधे घटत्त्रांशे अन्याप्रकारकघुद्धत्वशक्तिज्ञानत्वेन हेतुतेति कार्यका रणभावइत्यादि प्रपञ्चितं भूषणे । तदेतदभिप्रेत्याह द्विकमिति । जातिव्यक्ती इत्यर्थः पूर्व्वपक्षविरोधपरीहारः पूर्ववत् । त्रिकमिति | जातिव्यक्तिलिङ्गानीत्यर्थः । सत्वरजस्तमोगुणानां साम्याबस्था नपुंसकत्वम् । आधिक्यं पुंस्त्वम् । अपचयः स्त्रीत्वं तत्तच्छब्दनिष्ठं वाच्यम् । तमेव विरुद्धधर्म्ममादाय तटादिशब्दा भिद्यन्ते । केषाञ्चिदनेकलिङ्गत्वव्यवहारस्तु समानानुपूर्वीकत्वेन शब्दानामभेदारोपात् । एवञ्च पदार्थपदे पुंस्त्वमेव । व्यक्तिपदे स्त्रीत्वमेव । वस्तुपदे नपुंसकत्वमेवेति सर्वत्रैवायं पदार्थः, इयं व्यक्तिः । इदं वस्त्विति व्यवहारः तटस्तटी तटमिति चोपपद्यते । तच्च लिङ्गमर्थपरिच्छेदकत्वेनान्वेतीति पश्वादिशब्दोक्तं " पशुना स्तौति" पशुनेत्यादिविधि र्न छाग्यादीनङ्गत्वेन प्रयोजयतीति विभावनीयम् । नच व्यक्त्यादिशब्दोक्तलिङ्गस्येव

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140