Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 44
________________ वैयाकरणभूषणसारे | इत्यादि प्रपञ्चितं भूषणे । सप्तम्या अप्याश्रयोऽर्थः । “ सप्तम्यधिकरणेच " इत्यधिकरणे सप्तमी । तच्च " आधारोऽधिकरणमि" तिसूत्रादाधारः । तच्चाश्रयत्वम् । तत्राश्रयांशः शक्यः तत्वमवच्छेदकम् । न चाश्रयत्वमात्रेण कर्म्मकर्तृकरणानामाधारसंज्ञा स्यात् । स्यादेव यदि ताभिरस्या न बाधः स्यात् । " कारके " इत्यधिकृत्य विहितसप्तम्याः क्रियाश्रयइत्येवं यद्यपि तात्पर्य तथाप्यत्र कर्तृकर्म्मद्वारा तदाश्रयत्वमस्त्येव स्थाल्यादेर्भूतलकटादेवोत स्थाल्यां पचति भूतले वसति कटे शेते इत्याद्यपपद्यते । उक्तञ्च वाक्यपदीये । ४४ कर्तृकर्म्मव्यवहितामसाक्षाद्धारयत् क्रियाम् । उपकुर्व्वत् क्रियासिद्धौ शास्त्रेऽधिकरणं स्मृतम् । एतच्च त्रिविधम् । औपश्लेषिकं वैषयिकमभिव्यापकञ्च । कटे शेते, गुरौ वसति, मोक्षे इच्छास्ति । तिलेषु तैलमिति । एतच्च "संहितायामिति " सूत्रे भाष्ये स्पष्टम् । 1 अवधिः पञ्चम्यर्थः । अपादाने पञ्चमी । तच्च “ ध्रुवमपायेsपादान " मिति सूत्रात् (अपायः) विश्लेषजनकक्रिया तत्रावधिभूतमपादानमित्यर्थकादवधिभूतमिति भावः । उक्तञ्च वाक्य पदीये । अपाये यदुदासीनं चलं वा यदि वाऽचलम् । ध्रुवमेवाऽतदावेशात्तदपादानमुच्यते । पततोध्रुव एवाश्वो यस्मादश्वात्पतत्यसौ । तस्याप्यश्वस्य पतने कुड्यादि ध्रुवमुच्यते ।

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140