Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown
View full book text
________________
३२
वैयाकरणभूषणसार सन्तीत्यादौ तत्तत्कालिकीनां क्रियाणामनित्यत्वात्तद्विशिष्टस्योत्पत्यादिकमादाय वर्तमानत्वमूह्यम् उक्तञ्च भाष्ये "इह भूतभावष्यद्वर्तमानानां राज्ञां क्रियाः तिष्ठतेरधिकरणमिति,,।
परतोभिद्यते सर्वमात्मा तु न विक्सपते । पर्वतादिस्थितिस्तस्मात्पररूपेण भिद्यत इति ।
वाक्यपदीये च । एवं "तमआसीत्,, "तुच्छेनाभ्यापिहितं यदासीत्,, "अहमेकः प्रथममासं वामि च भाविष्यामि,, चेत्यादिश्रुतयोऽपि योंज्याः, तच्च वर्तमानत्वादि लड़ादिाभोत्यते, क्रियासामान्यवाचकस्य तद्विशिष्टे लक्षणायां लड़ादिस्तात्पर्य्यग्राहकत्वेनोपयोगात्, अन्वयव्यतिरेकाभ्यां तद्रूपं लड़ादिवाच्यमेव, अन्यथाप्रत्ययानां वाचकत्वविलोपापत्तिरित्यापि पक्षान्तरम् ॥
लिडर्थमाह परोक्षे इति “परोक्षे लिडिति,, मूत्रात् , कालस्तावदद्यतनानद्यतनभेदेन द्विविधः द्विविधोऽपि भूतभविष्यद्रूपः, तित्रानद्यतने भूते परोक्षे लिडित्यर्थः, तेनाद्यतने मृते अनद्यतने चे न लिट् प्रयोगः स्यात्, परोक्षत्वञ्च । साक्षात्करोमीत्येताहशविषयताशालिज्ञानाविषयत्वम् , नच "क्रिया नामेयमत्यन्तापरिदृष्टा पूर्वापरीभूतावयवा न शक्या पिण्डीभूता निदर्शयितुं,, मिति . * वाचकत्वपक्षमवलम्ब्याऽऽह । अन्वयव्यतिरेकाभ्यामित्यादि । न च तक्रकौण्डिन्यन्यायात्कळद्यर्थ बाधः शक्तताऽच्छेदकभेदात् किं चैवं लाकमणीतिसूत्रं निरवकाशं स्यात् स्थलाऽन्तरेऽपि विध्याद्यर्थैर्बोधसम्भवादिति भावः।
। ननु परोक्षत्वं प्रत्यक्षाऽन्यज्ञानविषयत्वम् । तथाच प्रत्यक्षक्रियायामपि श्रुतानुमितत्वयोः सत्वात्पपाचेत्यादिप्रयोगाऽऽपत्तिरत आह । परोक्षत्वञ्चेति ।

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140