Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 30
________________ वैयाकरणभूषणसारे वाभ्यावृत्तिसम्भवेन सामथ्र्यात्तल्लाभात् । तथा च साध्यमात्रस्वभावक्रियालाभाय तदिति वाच्यम् । नच पाकइत्यादौ तादृशीति नातिप्रसङ्गः । द्विर्वचनमिति च द्विःप्रयोगोद्विर्वचनमिति व्युत्पत्या “द्विर्वचनेऽचीति,, ज्ञापकं वा आश्रित्योपपादनीयमित्याहुः ॥ २० ॥ ननु सिद्धान्ते बोधकतारूपा शक्तिराख्यातशक्तिग्रहवतां बोधादायक इति धातोरवे भावना वाच्या नाख्यातस्येति कथं निर्णय इत्याशङ्कां समाधत्ते । भेद्यभेदकसम्बन्धोपाधिभेदनिबन्धनम् । साधुत्वं तदभावेऽपि बोधो नेह निवार्य्यते ॥२१॥ है भेद्यं विशेष्यं भेदकं विशेषणं तयोर्यः सम्वन्धस्तस्य योभेदः तन्निबन्धनं साधुत्वम् । अयमर्थः । व्याकरणस्मृतिः शब्दसाधुत्वपरा तत्रैवावच्छेदकतया कल्पयधर्म्मस्य शक्तित्वं वदतां मीमांसकानां पुनः शक्तत्वं साधुत्वमित्येकमेवेति तद्रीत्या विचारे साधुत्वनिर्णयएव शक्तिनिर्णयउच्यते । अतिरिक्तशक्तिवादेऽप्याख्यातानामसाधुता भावनायां स्यादेव तथा च चतुर्थ्यर्थे तृतीयाप्रयोगवद्धात्वर्थभावनायामाख्यातप्रयोगे याज्ञे कर्म्मण्यसाधुशब्दप्रयोगात् " नानृतं वदे., दिति निषेधोल्लंघनमयुक्तो प्रायश्चित्तं दर्शनान्तरीयव्युत्पत्तिमतां स्यादिति । ननु त्वन्मते नानृतमिति निषेधः क्रत्वर्थएव न सिध्यते आख्यातेन कर्तुरुक्तत्वात् श्रुत्या पुरुषार्थएव स्यात् प्रकरणादि क्रत्वर्थता तच्च श्रुतिविरोधेवाध्यतइति चेन्न तिङर्थस्तु विशेषणमित्यनेन परिहृतत्वात् न हि गुणभूतः कर्त्ता निषेधं स्वाङ्गत्वेन ३०

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140