Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 38
________________ वैयाकरणभूषणसारे लवत्त्वेन कर्मणएव कर्तुरीप्सिततमत्वात् "तथा युक्तञ्चानीप्सित,, मित्यादिसंग्रहाच्चैवमेवयुक्तम् इप्सितानीप्सितत्वयोः शाब्दबोधे भानाभावेन संज्ञायामेव तदुपयोगो नतु बाच्यकोटौ तत्प्रवेशः तथा विशेष्यस्यैव कर्मत्वं प्रतिपाद्यते न तु क्रियाजन्यफलाऽऽश्रयस्येत्यत आह । क्रियाजन्यफलाश्रयत्वे नेति । अयं भावः । सूत्रे ईप्सिततमशब्द आप्नोतरिच्छासन्नन्तात्कर्मक्तान्तात्प्रकृत्यर्थाऽतिशयद्योतके तमपि निपन्नस्तद्योगाश्च कत्लॅशब्दात् क्तस्यच वर्तमान इति कतीर षष्ठी । तथा च कर्जपस्थितत्वात्स्वीयव्यापारेण व्याप्तुमिष्यमाणतमं व्यापारजन्यफलसम्बन्धित्वप्रकारककर्तृनिष्टोत्कटेच्छावि यः कर्मेति पयंवसानाक्रियाजन्यफलाऽऽश्रयस्य कर्मतालाभ इति । न चेच्छाकर्मी भूताऽर्थधातोरेव धातोःकर्मणइति सूत्रणेच्छायां सनो विधानाव्या. पाच्छार्थकसम्नन्तधातुना व्याप्तिरूपकर्मोपसंग्रहाज्जीवत्यादिवदकर्मकतया ततः कथं कर्मक्तोपपत्तिरिति वाच्यम् । धात्वर्थोपसगृहीतकमत्वामत्यत्र कर्मणा तद्धात्वर्थीयकर्मान्तराऽनाकांक्षत्वविशेषण सन्प्र. कृतिधात्वर्थकर्मणः काऽन्तरसाऽऽकांक्षत्वेनोक्ताऽकर्मकत्वस्य सन्नन्तेऽसम्भवात् एवं सन्नन्तस्य वृत्तितया तघटककर्माऽऽदाय कर्म संशकाऽन्वय्यर्थकत्वरूपसकर्मकत्वाऽभावेऽपि तद्वाहभूतकर्माऽन्वयित्वमादायैव सकर्मकत्वं वोध्यमेव फलताऽवच्छेदकसम्बन्धेन तद्धात्व. थफलव्यधिकरणब्यापारवाचकत्वरूपं तदपीति नेप्सत्यादितः कर्मप्रत्ययाऽनुपपत्तिः। जिघ्रतेरपि स्वार्थाऽन्तरभूतकर्मणस्तदीयपुष्पाऽऽ दिकर्माऽन्तरसाऽऽकांक्षत्वमस्त्येव। गन्धनिरूपितलौकिकविषयितायां पुष्पादेराधेयत्वीयसांसर्गिकविषयतानिरूपितप्रकारतानिरूपकत्वेनाऽ न्वयेनाऽकर्मकत्वात् । कृष्णाय राध्यतीत्यस्य कृष्णस्य शुभाऽशुभं पर्यालोचयतीत्यर्थान्न धात्वर्थान्तभूतशुभकर्मणः कर्माऽन्तरसाऽऽकांक्षत्वमिति न तत्राऽप्रसङ्गः बुभूषेत्यादीनां तु भवनादिकर्मणः कर्माऽन्तराऽनाकांक्षस्य धात्वर्थतावच्छेदककोटिप्रविष्ठत्वादकर्मकत्वं व्यक्तमेव । एवं स्वर्यत इति भाष्यप्रयोगस्थस्वर वद्रूपविकृतिकर्मणः सन्निहितशब्दरूपप्रकृतिकर्मसाकांक्षतया करोत्यर्थणिजन्तात्कर्मप्रत्ययोपपत्तिरिति बोध्यम् । केचितु सनाद्यन्तस्य धात्वर्थोपसगृहातत्वेनाकर्मकत्वेऽपि तत्प्रकृतेः सकर्मकत्वमादाय तस्मात्कर्मप्रत्ययोपपत्तिमाहुः ।

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140