Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 39
________________ सुबर्थनिर्णयः । ३९ च क्रियायाः फलस्य च धातुनैव लाभादनन्यलभ्य आश्रयएवार्थः तत्त्वञ्चाखण्डशक्तिरूपमवच्छेदकम्, *ओदनं पचतीत्यत्र विक्लित्त्या श्रयत्वात्कर्म्मता घटं करोतीत्यत्रोत्पत्न्याश्रयत्वात् उत्पत्तेर्धात्वर्थत्वात् जानातत्यित्रावरणभङ्ग ं रूपज्ञाधात्वर्थफलाश्रयत्वात् अतीतानागतादिपरोक्षस्थलेऽपि ज्ञानजन्यस्य तस्यावश्यकत्वात् अन्यथा यथा पूर्व्वं न जानामीत्यापत्तेः अतीतादेराश्रयता च विषयतया ज्ञाना * अखण्डशक्तिरूपमिति । शक्तिर्धर्मः इतरपदार्थाघटितमूर्तिकधर्मरूपमिति यावत् आश्रय इत्यनुगतव्यवहारादाश्रयपदशक्यता - वच्छेदकत्वाश्च तत्सिद्धिद्रव्यत्वादिवदिति भावः । नैयायिकास्तु आश्रयताया नियतान्यनिरूपितस्वरूपाया अनुगमकत्वसम्भवः शक्यतावच्छेदकत्वस्यापि विभुत्वान्यतरत्वादौ व्यभिचारेण नाखण्डत्वसाधकत्वमिति न द्वितीयाया आश्रयोर्थः तस्य प्रकृत्यैव लाभात् प्रकृत्य भिन्नत्वेन तत आश्रयस्याननुभवाच्च । किं तु फलान्वायनी कृतिरेव तदर्थः । कर्मणि द्वितीयेत्यस्य फलनिष्ठाधेयत्वान्वये प्रकृतितात्पय्ये तदुत्तरं द्वितीयेत्यर्थात् तद्विरोधोपि अनादितात्पर्यग्राहकत्वेन परम्परया शक्तिग्राहकत्वाच्च न तद्वैय्यर्थ्यम् । आश्रयत्वं तु न तच्छक्यं तस्य निरूपकतासम्बन्धेनैव फलान्वयित्वस्या भ्युपगन्तव्यतयानिरू पकत्वस्य च वृत्त्यनियामकतया भावप्रतियोगितानवच्छेदकत्वेन विहगो भूमिं गच्छति न महीरुहमित्यादौ धात्वर्थफले संयोग महीरुह निष्ठाश्रयतायास्तेन सम्बधेनाभावस्याप्रसिद्धतया तत्राबोधत्वा सम्भवान्न च सूत्रस्वरसभङ्गः । शक्तिः कारकमितिपक्षे तदयोगात् आधेयताया अपि निरूपकतया कारकधर्मत्वादित्याहुः । + आवरणभङ्गेति । प्रचनिमताऽनुसारेणेदं निकृष्टमते तु शानरूपफलस्यविषयतया घटादौ सत्त्वात्कर्मतेति बोध्यम् । न चाकर्मकतापत्तिः फलतावच्छेदकसम्बन्धेन सामानाधिकरण्याभावात् । नैयायिकमते त्वेतादृशस्थले यथा घटादीनां कर्मत्वम् तथोपपादितम् धात्वर्थनिरूपणावसरे |

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140