Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown
View full book text
________________
४०
वैयाकरणभूषणसार श्रयता नैयायिकानामिव सत्कार्यवादसिद्धान्ताद्वोपपद्यते इति उक्तञ्च ।
तिरोभावाभ्युपगमे भावानां सैव नास्तिता ।
लब्धक्रमे तिरोभावे नश्यतीत प्रतायतइति ॥ ननु चैत्रोग्रामं गच्छतीत्यत्र ग्रामस्येव चैत्रस्यापि क्रियाजन्यग्रामसंयोगरूपफलाश्रयत्वात्कर्मतापत्तौ चैत्रं चैत्रो गच्छतीत्यापत्तिः, प्रयागतः काशीं गच्छति चैो प्रयागं गच्छतीत्यापत्तिश्च क्रियाजन्यसंयोगस्य काश्यामिव विभागस्य प्रयागेअप सत्त्वादिति चेन्न ग्रामस्येव चैत्रस्यापि फलाश्रयत्वेऽपि तदीयकर्तृसंज्ञया कर्मसंज्ञाया बाँधेन चैत्रश्चैतमिति प्रयोगासम्भवात् द्वितीयोत्पत्तौ संज्ञायाएव नियामकत्वात् अन्यथा गमयति कृष्णं गोकुलमित्यतेव पाचयाति कृष्णेनेत्यतापि कृष्णपदावितीयापत्तेः शाब्दबोध श्चैतामत्यत् स्यादिति चेन्न तथा व्युत्पन्नानामिष्टापत्तेः उच्यतां वा प्रकारतासम्बन्धेन धात्वर्थफलविशेष्यकबोधं प्रतिधात्वर्थव्यापारानाधिकरणाश्रयोपस्थितिहेतुरित कार्यकारणभावान्तरम्, प्रकृते चैत्रस्य व्यापारानधिकरणत्वाभावान दोषः प्रयागस्य कर्मत्वन्तु सम्भावितमाप न, समभिव्याहृतधात्वर्थफलशालित्वस्यैव क्रियाजन्येत्यनेन विवक्षणस्यउक्तपायत्वात् नैयायिकास्त्वायदोषवारणाय परसमवेतत्वम् ड्वितीयदोषवारणाय धात्वर्थतावच्छदेकत्वं फले विशेषणं द्वितीयावाच्यमित्युपाददते परसमेवतत्वं धात्वर्थक्रियायामन्वति तथैव कार्यकारणभावान्तरकल्पनात्, परत्वमपि द्वितीयया स्वप्रकृत्यर्थापेक्षया बोध्यते । तथाच चैत्रस्तण्डुलं पचति

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140